________________
शृङ्गारमतरीकथा तत्रापि विशेषतो युवतयः मधुवर्षारम्भशरत्समयप्रभृतयोऽत्यर्थमुद्दीपका" ऋतवः । तत्सहायश्च विजृम्भमाणो मकरकेतुः केन नाम निवारयितुं शक्यते । अतस्त्वया प्रथम अरिषड्रग्गों जेयः । तत इन्द्रियाणि । ततः" [F. 33. A] सन्निहितदुष्टजनप्रेरणाः । ततो विलासिनीसंसर्गः। विलासिन्यो हि दृष्टिविषवराङ्गनासनाभयो दूरत एव मनोमोहमुत्पादयन्ति" । मूढचित्तस्य च विसरन्ति गुरूपदेशाः । दूरतोऽपसरति शास्त्राभ्यासः । शीर्यते शिक्षा । भिद्यतेऽभिमानग्रन्थिः । विलीयते जात्यायभिमानः। द्रवीभवति शीलसेतुः । ध्वंसते धैर्यम् । विलीयते विवेकः । दलति दायम् । पलायते प्रौढिः। प्रमाद्यन्तो हि बहवो विनाशमुपगताः । प्रकृत्यैव त्यक्तस्नेहा खलसङ्गतिरत एव परिहरणीया । दुःस्वमानामिव धूर्तानां दर्शनमनिष्टकारि । षिङ्गवर्गसंवर्गणमनर्गलं द्वारमनर्थानाम् । तौर्यत्रिकध्वनितं प्रवासनपटहोऽर्थस्य । मनोमृगापहरणव्याधगीतयो गीतयः। विभवस्य मर्म प्रहाराः क्रीडोद्यानविहाराः । अर्थनिम"अनानि क्रीडाजलमअनानि । लक्ष्मीमहापथयात्रा देव (कामदेव ?)यात्रा । विष्टिरिवानिष्टकारिणी योषितां सविकारा दृष्टिः। विवेकारयः सारयः । निग"[F. 33. B] डबन्धाः पिङ्गगोष्ठीबन्धाः। विभवाकूतानि द्यूतानि । सूनासनाभयः पण्यरमणीप्राङ्गणभूमयः । अपथ्या वेश्यागृहोपान्तरथ्याः। तस्मादव"हितेन स्वजात्यनुरूपयैव चेष्टया व्यवहर्तव्यम् । स्वजातिपरि] हारेण व्यवहरन्तः के नाम नोपहासपदवीमुपगताः । श्रूयन्ते च पुरुरवःप्रभृतयो महाप्रभावा अपि राजानं उर्वश्यादिवेश्याभिर्वशीकृता इति ।
अथैकदा यात्सु दिवसेषु, पञ्चत्वमुपगते पितरि, तमनुसृतायां च मातरि, कालपरिणतिवशादहेतुक्रशिमानमागच्छति शोकेऽकस्माच्छृङ्गारशैलू"पनर्तनोपाध्यायः समजृम्भत मकरध्वजबान्धवो मधुसमयः। क्रमेण च कोरकनिकुरुम्बकरम्बितेषु सहकारवनेषु, पञ्चमकला"[F. 34. A] कषायलाञ्छितेषु कलकण्ठीकण्ठेषु, प्रसववेदनानेडपीडितासु च माधवीलतासु, विरहिजनविसंस्थुलचेष्टावलोकनादिव जात "स्तोकहासेषु कमलवनेषु, किश्चिदङ्गारकिततनुतया प्रथमाभिलक्ष्यधूमादनन्तरमुद्यदल्पाल्पमदनदहनज्वालेष्विव किंशुक वनेषु, विकसितातनुस्तबकोपचितेषु मकरध्वजप्रतापानलेष्विव सर्वतः प्रज्वलत्सु विरहिणां सन्तापजनकेष्व शोकपादपेष्वखिलजनमनोहारिषु विविधमणिनिम्मितेषु क्रीडाभूषणेष्विव रते लारुणकपिशकान्तिषु प्रस्फुटत्कुइमले "पु, कुरबकानोकहेष्वामोदपरम्परासम्पर्कलोभाद् विरहिजनसंसर्गादिवारतिगृहीतेषु क्वचिदपि स्थितिमकुर्वाणेषु षट्पद" [F. 34. B]कदम्बकेषु, तरुणतरपल्लवपटावगुण्ठितासु नववधूटीष्विव कमनीयतामुपगतासु निखिलवनराजिषु, त्रिभुवनविजयाय सायका"भ्यासमाचरतः कुसुमकार्मुकस्य प्रतिक्षणगुणास्फालनध्वनितेष्विव परितः श्रूयमाणेषु कोकिलकुलक्कणितेषु, वसन्तसमये"न सजी
१ दृष्टिविषविषम् । २ विस्मरन्ति । ३ शर्म। ४ देरयात्रा। ५ राजानदुर्वश्यादि ।
६ बोधवों।
करंध्यतेषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org