________________
,
श्रीभोजदेवविरचिता कृतासु त्रिभुवनैकधानुष्कस्य मकरकेतोरसितकुन्दलतादामनिम्मितासु ज्यावल्लीष्विव प्रतिकुसुमपादपमुल्लसन्तीषु भ्रमरमालासु, मधुसमयसमागतानामुपवनश्रियामुत्तंसेष्विव समुल्लसत्सु क्षितिरुहां पल्लवेषु, पथिकहृदयस्थितस्य मदनाशु"शुक्षणेः सन्धुक्षणाय दक्षिणामुखात् खैर खैरं समुत्सर्पत्यभिनवोद्गतबकुलकुसुमामोदवाहिनि मलयानिले मिथुनानुरागेविव मूर्तेष्वनवरतमापतता मलयानिलेन प्रतितरु परित'स्तरङ्गमाणेषु महाराजनु(न?).चीनांशुकविरचि[F. 35. A ] तेषु मन्मथध्वजेषु, क्रीडान्दोलनप्रसक्तानामतिनिर्दयप्रियतमभुजाश्लेषनिर्भयानामङ्गना'नां कामिजनकुरङ्गव्याधगीतिषु सर "नृपतेर्विजयराज्यघोषणाखिव प्रतिदिशमुल्लसन्तीषु विलासगीतिपु, को हि नाम प्रियजनवियुक्तेषु कामिष्वस्माकमायति "सहत इति अतिकरुणयेव कशिमानमागच्छन्तीषु रजनीषु, आः कथमनङ्गबान्धवे निखिलसुखधामन्यपि मधुसमये अस्मदाग मनारम्भेऽप्यतितरां दूयन्ते वियोगिन इत्यनुशयादियोपजायमानतापप्रसरेषु वासरेषु, विकचकमलिनीकाननेभ्यः पवनोद्भूतैः समुत्सर्पद्भिर्बहलरजःपटलैविरहिविनिपातसूचकैरुत्पातदाहैरिवाश्लिष्टेषु दिक्तटेष्वतिघनस्फुटितकोकनदकानना"भिरुपवनदीर्घिकाभिर्निरन्तरोद्भिन्नकिसलयैः प्रमदवनपादपैरुद्गच्छदनच्छस्तबकला [F. 35. B]ञ्छितैरशोकतरुभिः प्रतिदिशमुन्निद्रकुसुमनिकरहारिभिः किंशुकवनविरहिणां सर्वतः समुत्थितमदनदावानल इव प्रतिभासमाने भुवन"तले, एकदा तु विटबटुकपेटकेन मत्तद्विरद इव रविदत्तः स्मरन्नपि गुरूपदेशान्-'अद्य भगवतो मकरध्वजस्य यात्रामहोत्सवः, स यदि न दृश्यते तदा किं जीवितेन, किं वा विफलेनामुना लोचनयुगलेन ? यद्यपि न ते कौतुकमस्ति तथाप्यस्मदनुरोधाद् भद्र ! भवता तदर्शनाय" गन्तव्यमेव, भव्यो भवान् यदि न गच्छसि तदा किमस्माकमियत्यपि न वशिता विद्यते येन भवन्तमात्मनोऽभीष्टं कारयामः । तदागच्छ गच्छामः'-इ"त्यभिधीयमानो बलादेवानिच्छन्नपि तदनुयायिनेव यौवनेन प्रेर्यमाणस्तद्वयस्यैरिवेन्द्रियैः पुरस्तादाकृष्यमाणो निरन्तरोद्भिध"माननानावनराजिकोरकतया समुल्लसदेनककुसुमतया वा आयुधागारमिव भोग्यास्थानमिव विलासभवनमिव भगवतो मकरध्वजस्य" [F. 36. A] यौवनमदमत्तकामिनीवदनमदिरासेकसंक्रान्तमिव सौरभं कुसुमपरिमलच्छलादुद्वमद्भिर्बकुलपादपैरुद्भासमानम्, कचित् तरुणिमोन्मदविलासिनीकुचकलशसंश्लेषादुन्मिषद्बहलकुमलैः कामिभिरिवोद्धतपुलकजालकैः कुरबकतरुमिरध्यासितक्रीडाशैलोपश"ल्यम्, कचिन्मदतरङ्गितोपान्तया कुवलयदलदामदीर्घया मृगदृशांदृशा पात्रीकृतैरुल्लसन्निविडमञ्जरीनिकरचारुमिः कुसुमायुधस्सा "युधागारैरिव तिलकपादपैरुपशोभितक्रीडातडागपरिसरम् , क्वचिदलक्तकरसरजितेनेवोल्लसनिसर्गशोणिम्ना चरणकमलेन कामिनी भिस्ताडितानामुन्मीलदतनुपल्लवोलासिनामुद्गच्छदस्तोकस्तबकलाञ्छितानां मदनदहनास्थानसझनामिवाशोकपादपानां शालिकाभिरल"कृतानङ्गभवनप्राङ्गणोपान्तभूमिभागम् , क्वचिन्मन्दमन्दमुन्मदविलासिनीकण्ठ... सालासु। २ परितस्तर। ३ मङ्गन्तानां । ४ °दनस्थ । ५ योग्या । ६ पादपैदुग्रास ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org