SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीभोजदेव विरचिता १९ (2) तत्र नीलीरागः, रीतिरागः, अक्षीवराग इत्येको वर्गः " । मञ्जिष्ठारागः, कषायरागः, सकलराग इत्यपरः । कुसुम्भ रागः, लाक्षारागः, कर्दमरागः इत्यपरः । हरिद्रारागः, रोचनारागः, काम्पिल्यराग इति चतुर्थः । प्रथमे नीलीरागवर्गे नीलीरागाद् रीतिरागाक्षीवरागौ किञ्चिदस्थिरावपि [ F. 31. B] नीलरागप्रकाशनाद् दर्शितौ भवतः । मञ्जिष्ठारावर्गे मञ्जिष्ठारागात् कषायरागसकलरागौ किञ्चिदस्थिरावपि मञ्जिष्ठारागप्रकाशनात् प्रकाशितौ भवतः । कुसुम्भरागवर्गे कुसुम्भरागालाक्षारागकर्दमरागौ किञ्चिदस्थिरावपि कुसुम्भ रागप्रदर्शनात् प्रतिकृतौ भवतः । हरिद्रारागवर्गे हरिद्रारागाद् रोचनारागकाम्पिल्यरागौ किञ्चि[द] स्थिरावपि हरिद्रारागप्रदर्शनात् प्रतिकृतौ भवतः । एवमयं यद्यपि द्वादशप्रकारो रागः प्रकाशितस्तथापीत रेषां चतुष्टयेऽन्तर्भावात् प्राधान्याचतुधैव भवत्याः कुतूहलात् प्रदश्यते - नीलीरागो, मञ्जिष्ठारागः, कुसुम्भ रागो", हरिद्रारागथेति । तत्र नीलीरागं सर्वस्वमपि विश्राव्य वासवद् ( ? ) वाहयेत् । मञ्जिष्ठारागं तु यदृच्छया विश्रावयेत्, न तु विच्छायतापर्यन्तं नयेत् । कुसु [ F. 32. A ] म्भ रागस्तु नातिचतां विसहते । तस्मात् तं चटुतां विनैवानुकूल्यानुकूल्य विश्रावयेत् । हरिद्रा - रागः क्षिप्रमेव विरज्यते । अतोऽसौ झगिति विश्रावणीयः । यस्यां च वैशिकोपनिषदि रहस्यमेतद् - यद् व्याघ्रादिव प्रेम्णः सावधानतया सर्वदेवात्मा रक्षणीयः । तत्र रागवशाज्जगति बहवो भुजङ्गा वेश्याभिर्विप्रलब्धाः । तथा हि ते कथयामि श्रूयताम् । इति महाराजाधिराजपरमेश्वर श्रीभोजदेव विरचितायां शृङ्गारमञ्जरीकथायां शृङ्गार" मञ्जरीशिक्षा समाप्ता । (3) [ प्रथमा रविदत्तकथानिका ] अस्त्यत्र कुण्डि [न]पुरं नाम नगरम् । तत्र च महाधनः श्रोत्रियो महान् ब्राह्मणः सोमदत्तो “नाम । तेन च विजय सप्तमीप्रति विधानेनाभीष्टार्थस्य प्रसवितारं सवितारमाराध्य पश्चिमे वयसि सूनुरवाप्यत । तस्य च रविणा दत्तत्वात् " [F. 32. B] रविदत्त इति पिता नाम चक्रे । क्रमेण चायमुपनीतो विधिवदधीत सकलवेदवेदाङ्गोऽधिगतसकलशास्त्रः षोडशवर्षदेशीयः संवृत्तः । अथात्मनो महाधनत्वमाकलयताऽस्य च भाविनं विनिपातमाशङ्कमानेन तत्प्रतीकाराशया पित्रा शिक्षितः सकलमपि कलाकलापम् । विशेष" तो दत्तकादिप्रणीतवैशिकरहस्यानि च ज्ञापितः । एकदा तु रहस्याहूय शिक्षयितुमारब्धः-- " वत्स यौवनं नामातिगहनमन्धतमः, दुःपरिहरं सर्वप्राणिभिः । दुःशीलच मदनः, सर्वोन्मादैकायतनं च विभवः । नलिनीदलनिपतितजललवतरलं प्रकृत्यैव मनः । दुर्दान्तद्विरददुर्धराणि चेन्द्रियाणि । निसर्गतयैवाभिलषणीया विषयाः । ३ प्रधान्या । ४ कुसुम्भा । ५ कुसुम्भ । ६ चटुन । १ कुसुम्भा । २ ७ सवृत्तः । ८ निसर्गता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy