________________
१८
शृङ्गारकथा
बागुरा विमृगाणाम्, योग्यावनिः कपटनाटकस्य । मायेव नानाविधपाश पातितपशुः, जलूकेव सततमापीतशोणितोप [F. 30. A ] चिता, डिण्डिकप दिव परग्रन्थिस्रावणजात निवडा, वैद्यवृत्तिरिव प्रकामातुरोपजीविनी, धूतैरपि व्याप्यमाना, विटैरप्युपास्यमाना, "कुरूपयुक्तापि न कृपान्विता, मुनिजनसंवर्धिततरुपंक्तिरिव घटपानाप्तप्रीतिः, विश्वम्भरेव वक्रोक्तिहृतहृदया माता विषमशीला नाम " I
(1),
[ शृङ्गारमञ्जरीं प्रति मातृदत्तशिक्षावर्णनम् ]
(4)
(1)
अथैकदा भुक्तोत्थितामसौ यौमावशेषे वासरे मन्दीभावमासादयति भगवतो भाखतः प्रभाविताने मणिवितानकस्याधस्तान्महार्हपर्यङ्का सीनामनतिदूरवर्तिनं पर्यङ्कमभिरूढा विषमशीला शृङ्गा र मञ्जरी मित्यवोचत् - " वत्से ! निजलावण्यसारूप्य सौभाग्यमदमत्ता " मा कृथाः क्वचिदपि प्रमादम् । प्रमादिन्यो हि वेशप्रमदाः प्रायो धूर्तविटैः कियन्त्यो नाम न वञ्चिताः कियन्त्यो वा न विप्रलब्धाः कियन्तीनां वा न सर्वस्वमाच्छिन्नम् । तत् पुत्र ! सर्वथैवाप्रमादिनी भव निजचित्तरक्षणे वित्तरक्षणे च । सावधाना भव वैशिककलाकलापे परचित्तावर्जने च । यस्मादावर्जित चि" [F. 30. B]त्त एव रजयितुं शक्यः । रञ्जितचित्तवृत्तिर्हि सर्व्वखं जीवितं च प्रयच्छति । न खल्वद्यापि च सौभाग्यगर्विता जानाति भवती कथमपि न ज्ञातचित्तवृत्तिरात्त सर्वस्वो निर्धास्यते, कथं वा स एव भूयोऽपि वर्धित विभवः प्रतिसन्धीयते, कथं वा प्रथममावर्ज्यते, कथं वा सङ्गतो विघटमानः स्थिरीक्रियते, कथं वा विरज्यन्नसमरागेण पुनरपि रज्यते, कथमन्यचित्तः पुनरनन्यचित्तः क्रियते । यतो हि प्रतिप्राणि दुर्विज्ञेयाश्चित्तवृत्तयः । रुद्रादिवारणवदन्याकारादन्यमनस्काश्रु बहुप्रकाराः पुरुषा भवन्ति । यदि कश्चिद्भीरुरपि शौर्य प्रकटयति । लुब्धोऽप्युदात्तायते । उदात्तोऽपि कदर्य" वद् व्यवहरति । दुर्भगोऽपि सुभग इव चेष्टते । वणिगपि विटायते । विटोsपि वणिज्यते । दरिद्रोऽपीश्वरायते । कश्चिद्धर्मरुचिः, कश्चिदर्थपरः, कश्चित् कामप्रधानः । तदेवं चित्तवृत्तीनां वैचित्र्ये सति प्रथममेव सम्यक्चित्तवृत्तिमाकलय्य यो यत्र चित्तवृत्तिस्तं तया क[I. 31. A ]मपि प्रोत्साह्य, कमप्यनुप्रविश्य, कमपि निराकृत्य, कमपि भीषयित्वा, कमपि रञ्जयित्वा, स्वयमरज्यन्त्या सर्व्वस्वमपहृत्य निर्वासनीयः । तत्र रागोऽपि तावत् प्रथममाकलनीयः । अनाकलितरागे हि प्रयुज्यमानं वैशिकरहस्यं विफलतामासादयति । आकलितरागे तु तदेव प्रयुज्यमानं सुखेनैव फलाय भवति । स च रागो द्वादशधा । नीलीरागः । रीतिरागः । अक्षीवरागः । मञ्जिष्टरागः । कषायरागः । सकलरागः । कुसुम्भरा गः । लाक्षारागः । कर्दमरागः । हरिद्रारागः । रोचनारागः । काम्पिल्यराग इति ।
१ पिङ्ग ।
Jain Education International
२
'वाश' ।
३ जामा ।
भू
५ तदेव ।
For Private & Personal Use Only
www.jainelibrary.org