________________
श्रीभोजदेवविरचिता
१७
(6)
1
,
नटीव सभाजन प्रतापनाय हृदयशून्यं रोदिति । कदाचिदनिमित्तं हसति । कदाचित् स्वसुतां तर्जयति । कदाचिदावर्जयति । कदाचिद् योधयति । कदाचिद् बोधयति । कदा-" [ F. 28. B ] चिद् गृहादपि निर्वासयति । कदाचिदपयान्तीं वारयति । निःसारं निःसारयति । निःस्वं निर्जीवमिव परिहरति । मुक्त्यपेक्षिणी संसारमिव विदित" सारमवगणयति । लोहकारभस्त्रेवाध्मातमूर्तिः । अर्थाशयाऽनर्थकं स्वसुतां प्रति पूत्करोति । संस्थाने बकेन, विलुम्पने वृकेण, दृशि द्वीपिना, "उत्पादकत्वे शरभेण, वृथारटिते करभेण सदैवात्यक्ता । अव्यक्तान्तस्तव गोपनार्थमकर्तव्यकाण्डपटिकयेव पटिकैया सदैव प्रावृतमूर्तिः । ज्ञातपरतत्त्वापि पापैकरुचिः । समुपचितमांसत्वात् कोमलत्वग प्यतिकठिना, स्थूलाप्यतिलघुः, अतिस्निग्धापि परुषा, शान्तमूर्तिरपि कृतान्तच "रिता । दान्ता पि दमयति । घृष्टापि धर्षयति । नष्टापि नाशयति । आवर्जितापि वर्जयति । स्वीकृतापि निःस्वीकरोति । पारदमूर्तिरिव सुवर्णमादाय पाण्डू करोति । नरसिंहमूर्तिरिव हिरण्यकशिपुक्रुद्धा, योगिन्यपि वियोगकदत्तहृदया [F. 29. A] सौनिकवनितेव सततं परमांसविक्रयिणी, अतिस्थूलोदरस्फिकूपिण्डोरुयुगलतया चलितु "मक्षमाप्यतिचला, अर्थमय्यप्यनर्थदायिनी, नर्मदापि तार्पनी, गम्भीरापि सम्भ्रमवती, जातरूपक्षयाप्यासादितरूपा । सततं परपिशित" भक्षणपरतामाकलय्य भीतेनेव परमांसेन संश्रिता, सुरतैरिव सुरापानैः प्रीणयितुमशक्या, परार्थैरिव मांसैः सदैवानवाप्त" तृप्तिः, विप्रपर्षदिव सदैव भोज्यप्रिया । साङ्ख्यस्थितिरिविापरमार्थोपपदा नि[य] पुरुषभोगा, शाक्यशासनोक्तविश्वस्थितिरिव" क्षणिका, कणादमतिरिव द्रव्यतत्त्वैकप्रधाना, अक्षपादविद्येव सदैव बहुमतेश्वरा, प्रभाकरप्रज्ञेव स्मृतिप्रमोषोत्पादननिपुणा, कुमारिलमतिरिवार्थवादप्रधाना । ऐन्द्रजालिकान् बालकानिवोपहसति । मायाविनो मयादीनप्युन्मत्तानिव न बहुमन्यते । कुटिल [ F. 29. B] मतिकौटिल्यप्रभृतीन् बटूनिवापटून गणयति । उपनिषद्विद्याशन[स]प्रभृतीन् वार्द्धकाद्विकलानिवाकलयति । मूलदेवं मूलहारं व्याहरति । शशिनं शशमिव भक्ष्यार्थमन्विष्यति । सांव[स]]रिकान् वराकानिव कारुण्येन पश्यति । सोमादित्यं सोममिव धर्षणीयं गणयति । ग्रीष्मलक्ष्मीरिव सकलजनतापकारिणी, शिशिरसम्पदिव सकलजनोत्कम्पहेतुः पक्षिमीलेव दर्शितानेक विकारा, विश्वस्थितिरिव विचारविर "सा, जलधिमथनवेलेव पर्यन्तोत्था"पितकालकूटा, पुराणस्थितिरिव कमपि कथाभिः, कमप्याख्यानकैः, कमपि कड [व] ककैः, कमपि मणि कुल्याभिः " कमपि दृष्टान्तैः कमपि निदर्शनैः प्रतिबोधयन्ती, शाकुनिकस्थितिरिव पक्षिरुतज्ञानप्रधाना, वध्यशिला भुजङ्गानाम्, सूनास्था "नं विटपशूनाम्,
(1)
www
(6)
४
१ चिदनमित्रं । २ पटक । ३ कोमल । ७ विप्रकर्षदिव । ८ बटूनिवाबपटूत्वागणयति । ९ शशि । १२ वाणिकुण्याभिः । १३ निर्देशनैः ।
भवा. ३
Jain Education International
१३
। ५ पाण्डु । ६ नापनी । १० सालेव । ११ पर्यन्तस्थाप
For Private & Personal Use Only
www.jainelibrary.org