________________
श्रीभोजदेवविरचिता तया स्वभावपृथुलयोरपि कपोलयोरतिपृथुलतामिवापादयन्ती, विगलितदशनतया" मुहुर्मुहुर्जगद्ग्रासगृभुमिव प्रलम्बमोष्ठं संवृण्वती, विषमविषधराशीप्रायोपलक्ष्यमाणद्वित्रदशना, किंचिनिमममतिपृथुलस्थूलतरुणवनमहिषकन्धरानुकारं "कण्ठं दधाना, अतिपृथुलस्थूलकण्डरासन्तानसन्दानितकन्धराबन्धतया परार्थागमप्रवेशवर्तनीरिव सर्वतः समुदास 'माना, क्षुत्पीडाऽवसीदजरदजगरदेहसकलप्रतिमबाहुकाण्डा कूपरादधस्तात् सर्वतः समुपलक्ष्यमाणशिराजालकतया तीव्रतपनतापो"कथितात्यायतस्थपुटचिपिटकोशातकीफलप्रायभुजयुगा, अनवरतदृढप्रहारसञ्जातकठिनकिणग्रन्थिता[व]यवान्तरापि कठिनतरहृदया, अतिपृथुलकाष्ठपात्रीप्रतिमतुण्डोत्तानितस्थूलश्लथारघट्टघटीप्रतिमपयोधरा, अतिबलात् पृष्ठपार्श्वयोः प" [F. 25. B] तितान् सन्धीन् स्वचरित्रगोपनस्थानानीव दधती, अतिस्थूल'तुण्डान्तरिततया दुर्विभाव्यमतिसम्भोगभयात् पलायितमिव नितम्बविम्बं दर्शयन्ती, विवर्द्ध"मानपृथुलस्फिक्तया प्रतिदिवसमापिबन्तीव व्योम्नोऽवकाशम् । तैलिकयत्रयष्टिप्रतिमेनोरुयुगलेन, दीर्घपक्वत्रपुसीफलानुकारिणा "जवाद्वितयेन स्थूलदर्दुरस्थवीयसा चरण]द्वन्द्वेन च विराजमाना । विनतोर्ध्वकायतयो परिस्थौष्ठपुटविदीर्णसंकतया च त्रिभुवनमिव ग्रसितुमाकासन्ती, आविर्भूतातनुजरापरिचयाचिरोपचितभुजलतामांसश्लथतया जरादोलनदोलामिव प्रकटयन्ती, मदनद्यूतकटिव "मिव खटिकारेखासपत्नीभिरनेककितवोत्पादिताभिर्जीर्णापाण्डुभिर्नखरेखाराजिभिरलङ्कृतसर्वावयवतया खचरित्रचित्रमिव प्रकाशयन्ती, अतिचलबहलमांसतया च निजमस्थिरत्वं सकलेवप्यवयवेषु प्रतिपादयन्ती, बलिष्ठतया स्थपुटितेषु केषुचिदङ्गेषु'[F. 26. A वार्धक्येऽपि बाल्यमिवाश्रयन्ती, अधोनिहितदृष्टिः, शुकचञ्चकुटिलनासिकाया, राशिकर्तुमिव पातालगतानपि स्फुरन्मणिगणान् भुजङ्गानाक्रष्टुमभिलपन्ती, जगद्वञ्चनचातुर्यमहार्थतयोदु(न्दु )रकन्दरा, त्रिभुवममपि तृणाय मन्यमाना, कलिकालवृत्तिरिव पतितद्विजा", शुनीव सुरतपरामुखी, खगराजचञ्चरिख कवलिताशेषभुजङ्गा, उद्यानभूमिरिव मधुमत्तालिसङ्गता, याचकद्विजवृत्तिरिवाभिनन्दित "ग्रहणा, ग्रहपतिरिख बहुशो भुक्तमीनमेषा, ताम्रपर्णी व शतमुक्ताफला, वैडालिकवृत्तिरिव दम्भप्रधाना, महापुरुषचित्तवृत्तिरिव परार्थ"बद्धकक्षा, वामनमूर्तिरिव निजविक्रमाक्रान्तत्रिभुवना, पञ्चरात्रस्थितिरिव मायावैभवोपपादितभोगस्थितिः, सिकतासन्ततिरिव स्नेहो"ज्झिता, गङ्गेव क्रोडीकृताखिलवसुः, विश्वरूपमूर्तिरिव दुर्लक्ष्यस्वरूपा, व्याकरणप्रक्रियेवोपसर्गवशात् परस्मैपदोत्पादनकुशला' [F. 26. B] छात्रमण्डलीव रूपसिद्धिनिपुणा, यतिजनचित्तवृत्तिरिव मोक्षकतत्परा, लोकायतस्थितिरिवनाशितपरलोका, चाणक्यनीतिरिव यो" येनोपायेन ग्राह्यस्तं तेन गृह्णन्ती । कुशला कलाकलापे, चतुरा परचित्तज्ञाने, निपुणा पण्याङ्गनाव्यवहारे, प्रवीणा परवञ्चनायाम्,
जंगद्वास २ लक्षमाण । ३ कर्पूराद। ४ स्थल । ५ कायतयापरि । ६ सृक्षतया । बार्षिकेपि । ८ ताम्रपल्लीव । ९ व्याकरणमिवप्रकृयेवोपं । १० प्रतिजन । ११ गृह्णति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org