________________
१४
शृङ्गारमञ्जरीकथा मापादयति । अस्थिरेणाद्वारेणा(?)तिसरलेनापि लोचनयुगलेन कदाचिदप्यनासादितभङ्गान्यपि कमलकाननानि पराजयते ।।
___ यस्याः कोऽप्यपूर्वो मुखेन्दुर्यस्य सर्वदा परिपूर्णाकृतेर्दिवाऽप्युल्लसितमहसः कलङ्कोझिंतस्य पङ्कजैमैत्री, कुमुदा करेषु द्वेषः, नि"खिलरागकारिणी कान्तिः । या च केशपाशमन्तःसन्दानितविविधकुसुमनिकरमिषुधिमिव कुसुमसायकस्य सकलकामिजनहृदयभेदनार्थमिव दधाति । यस्याश्च निसर्गसुरभिणि लोहिताधरदलाभिरामे दशनकान्तिकेसरप्रकरोद्भासिनि वदनारविन्दे निपतिता" [F.24. A ] सौन्दर्यरसमापिबन्त्यः क्षीवा इवातिनिश्चलपद्मपक्षपालयः पदमपि न चलन्ति यूनों नयनमधुपालयः। या कामिजनहृदयवर्तिनः प्रज्वलन्मदनदहनस्य प्रशमनार्थ पृथुलमत्युन्नतं लावण्यरसनिर्भर कुचकलशयुगलमुद्वहति । मन्ये च यस्या रूपनिर्माणाभ्यासमिव क"तुं प्रजापतिना लक्ष्मीरत्यप्सरःप्रभृतयो युवतयः पूर्वमेव निम्मिताः । कथमन्यथा सविशेषकौशलनिष्पादनीया निखिलत्रैलोक्य स्त्रैणरामणीयकविजयिनी रूपसम्पत्तिस्तस्याः। के नानुरक्ताः, के वा ये न वञ्चिताः, के वा न विप्रलब्धाः , कैर्वा सर्वस्वमस्या न दत्तम् , के वा न ब्राह्मणा" राजानो राजपुत्रा वणिजः कायस्थाः कुटुम्बिनो वा दासतामाश्रिताः । यस्तया सङ्गतः स एवं जानात्यहमेवास्याः प्रियः, मय्येवे"यमनुरागिणीति । लभते च सा कदाचित् करिघटाः, कदाचित् तुरङ्गममन्दुराः, कदाचित् काश्चननिचयाः, कदाचिदपरिमितमहार्हाणि रत्नानि वा [F. 24 B.] सांसि च । एवमस्याः प्रतिदिवसमुपचीयमानो विभवः परां कोटिमारुरोह । तथाप्येषा न वेश्यावृत्तमतिकामति । काञ्चनशतपश्चकेन च बन्धकमादत्ते । त"थाप्यनुपमसौभाग्यवैभवान्न कदाचिदप्येकाकिनी स्वपिति ।
[ शृङ्गारमञ्जर्या मातुर्वर्णनम् ] तस्याश्च नृपतिपरिवारवारविलासिनीजनस्य निखिलस्यापि माननीयायाः,"जराप्रसरजर्जरितमूर्तिः, काशकुशकुसुमसंकाशकेशा, द्वित्रदिनविकसितशतपत्रजर्जरस्फारस्मारितपुरातनकान्त्यागन्तु[क]विटग्रासगृभुतयेव प्रतिदिनं विवर्धमानमाननं दधाना, तनुतरवलीकलितमापाण्डुगौरं विवर्णश्रीपर्णी फलकसो दरं ललाटपटमुद्वहन्ती, सरथवधौढ्यत (?) "जरन्महिषविषाणशकलप्रतिमं भ्रूयुगलं धारयन्ती, वय[:]परिणतिवशादीपनि मनं रागान्धजननिपातान्धकूपयुगलमिव लोचनद्वयं बिभ्राणा, अलाबुबुघ्नोपमातिस्थूलपृथुलायतचिपटनासापुटा, उद्धृत्तमल्लिकापर्णानुकारमोष्ठयुगलं विभ्रती, अतिप्रलम्बतया सकलभुजङ्गबन्धन"[F. 25. A ]पाशाविव श्रवणपाशौ कलयन्ती, वयःपरिणतिश्लथ
५ कलंकोद्भितस्य । २ कुसुदा । ३ पिर्वन्त्यः । ४ यूना। ५ प्रज्वले । ६ जानात्यम्लये. वास्याः। ७ मयोवें। ८ कदाचित्राप्येकाकिनी। ९ विस्वाण । १० श्रीपल्ली। ११ °सौदरं । १२ दीपनिमन।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org