________________
...............
शृङ्गारमञ्जरीकथा भिरामायाः भूमेरेकभर्ता,समरश' तदुर्ललितदोर्दण्डचण्डि *............कीर्तिमिषाने""............पवित्रितत्रिलोकीतलो यौवनमदरुद्धक' *...................." [F. 12. A] ........लावण्यपीयूषसलिलो निस्त्रिंशसलिलनिमन .................. षु प्रतिभटेपूटभ्रुकुटिभीषणललाटपट्टदुःप्रेक्षणी ...... .........हराट्टहासमिव त्रिभुवनं कुर्वाणो गीर्वाणसुन्दरीमुक्तसुरकुसुम सं *.......... ...............लः सहेलमसकृदपि सकृदिवाकृष्टस्य कोदण्डमण्डलस्य मध्य *........................सतताविष्कृ"तसुदर्शनोऽपि दुर्दर्शनः, परेषामरविन्दविष्टर *................. भिरपि विलासिनीभिर्नयननीलोत्पलदलैम * ................ ..........."[F. 12. B] शङ्कुकीलनाकल्पकोन्माथव्यथिताभिरुत्तुङ्गस्तनभराभोगभित्तिषु समुन्मिषद्द्घनसारसान्द्रेण चन्दनरसेनालिख्यालिख्य- 'निर्दय" स्त्रीवधपातकादपि न बिभेषि'- इत्याधनेकविधमनुगृहमङ्गनाभिरहरहः समुपालभ्यमानः, मानिनीमानद्रुमोन्मूलनमकरध्वजैकविजय"कुञ्जरः, शौरिरिव मदनजनकः, कनककान्तिच्छुरितमरकतप्रभाभिरामदेह :, प्रतिदिवसमनवरतमवनमतां नरपतीनां मुकुट "तटकोटिविटङ्कवेदिकोल्लासिभिर्मरकतमणिमयूखजालकैरेतदीयकरकमलानां मुकुलतामापादयत्सु निजचरणनखचन्द्रेषु सम्पादितहरिणच्छायः सच्छायतः समदगजघटनापाटनपाटलितासिपल्लवभृतो भुजद्रुमात् प्रतिदिवसमुल्लसत्सुरभियशः "कुसुमसञ्चयः समरनिहतावनिपतिविलासिनीनां बाष्पाम्बुकलुषितेवलकावरुद्धेषु कपोलस्थले" [F. 13. A ] प्वतिव्यक्तीकृताशिवक्रमः, क्रमवतामग्रेसरः, अग्रगण्यः संग्रामविजयिनाम् , त्रिभुवनाभिरामो राम इव पृथुबलप्रलम्बारातिविदलन"स्तिमितक्षीरोदवीचीनिचयधवलधामभिर्यशःपूरपटलैर्धवलितत्रिभुवनैकभावनः, प्रसवभूमिरत्यद्भुतानाम् , उन्मदकरिकुम्भकूट कुट्टाकविकटकरवालनखरो नृसिंहः, चपलराजलक्ष्मीकरेणुकालानपृथुभुजस्तम्भः त्रिदशराज इव अहितापकारी, भार्ग[ व ] इव नि मूलिताखिलक्षुद्रक्षत्रियः प्रकटितधनुर्वेदविद्यारहस्यश्च, भृगुरिवासिधेनुविद्यालतानामेकभवनम् , भुवनभारोद्धारक्षमः क्षमा "भृतां भर्ता म हा रा जा धि रा ज पर मे श्व र श्री भोज दे वो नाम।
या प्रभवो धर्मस्य, आश्रयः सत्यस्य, कुलगृहं कलानाम् , क्षेत्र" क्षत्राचारस्य, प्रमदोद्यानं विद्यालतानाम् , निधानं नीतेः, जीवितं शौर्यस्य, वसतिर्विलासानाम् ,आकरः करुणायाः, बान्धवो वैदग्ध्यस्य" [ F. 13. B ] ....................* रसस्य, धौरेयो धनुर्धराणाम् , अग्रणी गुणवताम् । यस्य वि".............* यु कुम्भिकुम्भस्थलोच्छलित
१ रामाया भूमे । २ °शित। ३ °र्तिनिषाने । ४ विनष्टान्यत्र ६ अक्षराणि । ५ विनष्टान्यत्र ४ अक्षराणि। ६ निमग्न । ७°हनैर्म। ८°ल्पकान्मार्थ । ९स्तव । १० 'भिरनुरहः । १३ °देवः। १२ मणिर्मयूख । १३ रेनदीय' । १४ मापदयत्सु। १५ °हरण । १६ मिरित्य° । १७ °कालनृपृथु । १८ यस्य । १९ प्रभावो। २० कालानाम् । २१ वसतिविला । २२ वैदख्यस्य । २३ चतुर्दशाङ्काङ्कितस्य पत्रस्योत्तराई एव प्राप्तः । तस्मिन्निम्नावतारिताः पंक्तयः परिपक्ष्यन्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org