________________
श्रीभोजदेवविरचिता मुक्ताफलमालाच्छलेन प्रति"................ॐ रामापरंपुरुषानिसर्गानुरागिणी नियतमेकपत्नी................* कृशिमानमानीयन्त प्रतिपक्षलक्ष्मीविजृम्भितानि । यसै" .............* वदनमुन्निद्रकुवलयदलदामदीर्घोऽकृत्रिमक्षाम' (?) वक्षस्थ............. *कृतिमतिरूपवयोनिर्जितमकरध्वज [F. 14. A ]........* तिजरगवीसुरभिरभू*................................'' क्षणेरधस्तनो ब्रह्माण्डभाग इव कालानलस्य, जलदमिव *.................” मोकः प्रतापहुतवहस्य । यश्च प्रवितरन् प्रजागरनुन्मूल *............ ........"कम्पयन् वपुर्नक्तंदिनमधिवसति हृदयानि वनजदसकल्पि (१) *............" तेरत्यर्थोन्नतिभृतः समुन्नतवंशाद्विबुधजनसेव्यमान *................"द्रावधि भगवती सरस्वती। यश्च रोहणाचल इव मणिग *.............[F. 14. B].... न, क्षीरोद इव वीचिनिचयेन, गगनाभोग इव तारकनिकरण, त्रिदशतरुरिव कुसुमनि[व]हेन, फणिपतिरिख फणाचक्रवालेन, अम्बुजाकर इव मृणालवलयेन, निखिलभुवनस्पृहणीयेनाहि[म धवलेन सङ्ख्यातिगे नामोदिना मेदिनी" ....[रक्ष ?]णक्षमेण, ह्लादिना गुणकलापेनालङ्कतः । यस्य चातिप्रज्ञाप्रकर्षमालोचयतां विपश्चितां गिरिन (रिन?) गरिमाणमारोहति गुरुः, न प्रति....''[भासते प्रतिभा?]वान् भार्गवो, नोद्धवमति वर्द्धयत्युद्धवः, अयते (१) न प्राज्ञगणनां चाणक्यः, न कुशाग्रीयबुद्धितामधिश्रयति धर्मकीर्तिः । यस्य च कृपा"णं उज्वलवैडूर्यसोदरच्छायसलिलमुल्लसद्विपुलपुष्कराभिरामशोभमुद्भवत्कुमुदमधिकविकसत्कुवलयश्रीकमलकमलिनीदल''श्यामलमगाधम् , सर इव परद्विपघटाभिरपि दुरवगाहम्, सततमाश्रयति शतशः सङ्ग्रामसीनि विजयलक्ष्मीः । यस्य चानुपमस्ववैभवनि [F. 15. A] मिते शोणमणिमरीचिसञ्चयोद्भासिनि भास्वताप्य"नतिक्रमणीये रमणीयतायावम (१) दृश्यलाघवमुल्लङ्घनीये परैरेकपुर इव पृथिव्याः" प्राकारतां कलयति प्रतापे, परिखाश्रियमाश्रयन्त्यगाधाः परितश्चत्वारोऽपि रमाकराः । यस्य चन्द्रातपायितमप्रविष्टेन्दुकिरणविस" ........"लोदरेषु, मलयजरसच्छटायितं" विरहिणीतनुलतासु, डिण्डीरपिण्डायितमम्बुराशिलहरीपु, सितदुकूलायितमासाव........"सरित्पूरायितमाकाशवमनि, पुण्डरीकखण्डायितमखिलसलिलाशयेषु, स्फटिकोपलायितमचलमेखलासु, सितविता २२ [नायितं ब्रह्माण्डमण्डपाभ्यन्तरे, विततसितपटायितं प्रवहणतातेषु, समुन्मार्जितद्रविडीदन्तकान्तिसोदरै रुनिद्रकुन्दच्छदच्छायाबन्धुभि..."बिन्धप्रसरैर्यशोभिः । यश्च गिरिराज इव त्रिदशसरितः, शशधर इव ज्योत्स्नायाः, हराट्टहास इव" [F. 15. B] विशदकान्तिसम्पदः,
१ परमापुरुष' । २ दीर्घाकृमक्षाम। ३ जलनिव। ४ जननसेव्य । ५ विनष्टान्यत्र त्रिण्यक्षराणि । ६ वलेन । ७ संख्यातियेन । ८ विनष्टान्यत्र द्वित्राण्यक्षराणि । ९ ये। १० निरिनगरि । ११ गुरु । १२ विनष्टान्यत्र चतुःपञ्चाक्षराणि । १३ नोद्धवमजि । १४ °त्युदधः । १५ भयवि १६°माश्रयविशतषी । १७ °सनि । १८ 'ताम्यनति । १९ विनष्टान्यत्र पञ्चाक्षराणि । २०°छटापितं । २१ विनष्टान्यत्र चतुःपञ्चाक्षराणि। २२ बिनशन्यत्र चत्वार्यक्षराणि । २३ बिनयन्यत्र त्रीण्यक्षराणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org