________________
श्रीभोजदेवविरचिता निमजनोन्मजनैः दृश्यादृश्यबाल"यत्रकमठम् , क्वचिद् दिदृक्षारसकुतूहलाकुलिताभिरपि मत्स्याङ्गनाभिरनिक्षिपन्तीभिश्चरणकमलमीपत्रासादिवावलोक्यमानोन्म " [F. 10. B] जद् यत्रमकरम् , क्वचिदन्तःस्थितानां भित्तिकमलिनीकुमलानां विकासाथ बालातपच्छेदानिव शोणमणिकिरणजालकान्युद्वहत् , परस्प"रप्रतिफलितमूर्तितया सम्भूयेव भारसमुद्वहद्भिरन्योन्यकल्पितावष्टम्भैर्मणिस्तम्भैरध्यासितमध्यभागम् , अतिमनोरमतया कौतुकाक्षिप्तहृदयैरिवानिमेषदृष्टिभिः परितो भारपुत्रकैरप्यवलोक्यमानम् , विचित्रं तौर्यत्रिकमारचयद्भिर्यत्रचारैरतिविदामपि (१) चित्तभ्रममुत्पादयद्, विचित्रयत्रदर्शनोद्धान्तचेतसो भित्तिघटितविकसितसितसरोजव्याजादुपहसदिवातिविचक्षणानपि प्रेक्षकान्, सा"न्द्रमृगमदपङ्कोपरुत्कलाः(१) कर्पूरक्षो द]सिकतावतीरनच्छमलयजद्रवसुरभिताम्भ:शोणमणिमञ्जरीविसंवलितमरकतमयूखकमलिनी वनाः परितः परिसरक्रीडानदीर्बिभ्राणं यत्रधारागृहकमुन्मदयति मनांसि पौरलोकस्य ।
___ यस्यां च सततातिनीलतया बहलच्छायत "[F. 11. A ]या चागणितदिवाकरकरैस्तमोभिरिवाधिष्ठितानि, अनवरतमुद्भिद्यमानाभिनवपल्लवतया सदैव पौरपुरन्ध्रिजनावलोकनव्यक्तिभूतानु"रागैरिव तरुभिरलङ्कृतानि, मधुरमधुकरझङ्कारकोलाहलच्छलेन मकरध्वजविजयराज्यघोषणमिव कुर्वाणानि, कुसुमावचयार्थमितस्ततः सञ्चरन्तीभिः सततसन्निहितवनदेवतानीव पौररमणीभिरुपवनानि ।
- इत्यभिधाय 'रे यत्रपुत्रक ! यद्यप्यस्मत्परिषदः सम्मतं तथापि निजगुणाविष्करणमवगीतमिव प्रतिभासते । तद् राजवर्णनं भवानेव भणतु'- इत्यभिहितस्तैर्विस्मयस्तिमितलोचनैरासन्न"वर्तिभिः प्रणयि भिरालोक्यमानः स भणितुमारेभे ।
[यन्त्रपुत्रकभणितं धाराधीशभोजदेववर्णनम् ] अस्ति तस्यां प्रणतसकलभूपालमौलिमालारुणमणिमरीचिनिचयपार्टलितपाद" पीठो निजभुजो दलितदुर्मदरिपुविलासिनीनयनवाष्पसलिलसेकैरनवरतप्रवर्ध्यमानकीर्तिलतावितानोऽसितनिस्त्रिंशप्रहार" [F. 11. B] विदलितरिपुकुम्भिकुम्भस्थलोच्छलितैर्दिवापि मु .................... भिर्मुकुटकोटिसङ्घट्टविगलितमाणिक्यनिकर .............. इव करवालां(?)गारक इव वसुधानन्दनः, बुध" इव राज ॐ.................शुरप्रभवः राहुरिव ग्रस्ततेजखिमण्डलः, केतुरिवाद्भुतोदयः,नवग्रहम................कृतनितम्बांभोगा".
१ मुत्सङ्गनाभि । २ चौरतिविदत् । नामयि चित्त । ३ सेतसो। ४ °जमाव । ५ प्रणमिभि । ६ पातलित। ७ निजभुवनोह। ८ द्वादश (१२) अङ्काङ्कितस्य पत्रस्य त्रुटितत्वादिमान्येव वाक्यानि पठ्यन्ते। यत्र एतादृशः '' फुल्लिकाकारोऽस्ति तत्राग्रे समग्राऽपि पंक्तिर्विनष्टेति सर्वत्र ज्ञेयम् । ९ मकुट । १० कला-वालंगारक°। ११ रुध। १२ °भौगा।
............
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International