________________
४
शृङ्गारमञ्जरीकथा
या च तुहिनशैलेनेव प्रालेयधवलेन, दशकन्धरेणैव स्खलितर्क्षराजेन, विन्ध्याचलेनेव निरुद्धतपनमार्गेण, सर्वतो विचित्रमणिकान्तिसन्तानसंवलितनिजतटाभोगेन, पुरीरक्षार्थमिव सततमधिज्येन, आखण्डलकार्मुकेणेव परिमण्डलतामुपगतेन, विततधनकपाटोपशोभिताभिरनेकजनसहस्रसङ्कुलाभिः पुरीविलोकनकुतूहलादुपगताभिर्द्दिग्भिरिवा१........ "भिश्चतसृभिः प्रतोलिभिः सनाथीकृतेन त्रिभुवनेऽप्यसदृशाकारेण प्राकारेण वलयिता ।
(1)
या च क्वचिदुत्तुङ्ग "[ F. 6. 4] [ कपि ] शीर्षकप्रान्तोलसद्वहलपुष्परागकिरणविसरैः सम्पादितदिनच्छायतया सदैवावियुक्तचक्रवाकमिथुनया सदैवोत्फुल्लकमलखण्डया, ' क्वचित् प्राकारमरकतमणिप्रभाजालबहलान्धकारजनितरजनिभ्रमतया सदैव विकसितनीलोत्पलवनया, क्वचिदरुणमणिविनिम्मित "शालाट्टालकमयूखच्छुरितसलिलतया मत्पुरविलासिनीक्कुचकलशकुङ्कुमारुणितयेव, क्वचित् सङ्क्रान्तस्फटिकशालवलयप्रतिविम्ब तया नगरीविलोकनकुतूहलाकुलितनिर्यच्छेषयेव परिखया परिक्षिप्ता ।
(2)
यस्यां च विकचकमलकुमुद कल्हारेन्दीवरपरागपुञ्जपि " ञ्जरितपयांसि सज्जनमनांसीवातिस्वच्छानि, दुर्जनमनांसीव दुरवगाहानि, उद्दण्डपुण्डरीकखण्डोड्डीनमधुकरमधुरझङ्कारहारीणि, क्रीडामजत्पु ̈रजन विलासिनी कुचकलशगलितमलयजर सामोदसुरभीणि, सौगन्धिकगन्धलुब्धमधुकर श्रेणि " [ F. 6. B ] श्यामलितोपान्तभागानि, स्फटिकमणिशिलासु स्नानागतपौरनारीजनप्रतिविम्बतथा जलक्रीडार्थमुन्मज्जन्तीभिः पातालकन्यकाभिरिवाधिष्ठितानि, प्रतिरजनि मदनालसचक्रवाककामिनीभिः प्रियतमभ्रान्त्या सस्पृहमालोक्यमाननिजप्रतिविम्बकानि, मुकुलितकुमुद कोशकोटरान्तनिलीनमधुकरतया दिवसकरभयात् प्रतनुतां गतेनान्धकारेणेव संश्रितानि, भूरुहकमलिनीदलच्छायानिलीनाभिर्म्म"रालमालिकाभिर्द्दिनकरकरोपमर्द्दभीताभिर्विकचकुमुद कान्तिभिचन्द्रिकाभिरिव निषेव्यमाणोपशल्यकानि, अगाधातिस्वच्छ सलिला " न्तर्दृश्यमानसफरग्रासगृश्रुतया मुहुर्मुहुर्द्दत्तविफलफालैस्तदप्रास्या वञ्चमानैर्मुग्धबक कुलैरुपसेव्यमानानि सविषाण्यप्यमृत" खानि, प्रवृद्धान्यपि समकरचिह्नानि, सकमलान्यप्यकमलानि, द्विधापि शतपत्राधिष्ठितानि द्विधापि सवनानि, द्विधापि कुवलयम [ F. 7. A ]नोहारिणि, द्विधापि विततानि क्वचिद्विकसितो' द्दण्डपुण्डरीकखण्डतया हसन्तीव क्वचिदमन्दमारुतान्दोलितो " हण्डरक्तोत्पलतथा नृत्यन्तीव, क्वचिद्वीचिवल्यान्तर्गतविकचेन्दीवरतया सभ्रूक्षेपात् कटाक्षाक्षी पून विक्षिपन्तीव, क्वचिदनल्पलहरी संघ" दृजर्जरितसलिलोन्मृष्टसीकरा सारतया धूलिमुत्सृजन्तीव, क्वचिदुभयतो विवर्तमाननिविडमारुताभिघट्टिततरङ्गोद्भटध्वनितेना रटन्तीव -इत्थमुन्मत्तचेष्टितमिवानुकुर्वन्ति सरांसि ।
(6)
१ विनष्टे अत्र द्वे भक्षरे ।
२ बकमलिनी । ३ तोड
Jain Education International
For Private & Personal Use Only
४ कटाक्षाक्षिक्षु ।
www.jainelibrary.org