________________
श्रीभोजदेवविरचिता
यस्यां च क्रीडापुष्करिणीवीरविलासोद्यानप्रभृत्यनेकरमणीयसंनिवेशायां नन्दनवनमध्यवर्तिविमलमणिनिर्मितासु पर्यन्तभित्तिषु प्रतिफलितमूर्तितया दिवसकरतापभियेवातिसुकुमारान् शरणागता"नन्तःप्रवेश्यारक्षदिवोपवनपादपान्, अनेकधारासहस्रसम्पातजन्मना परितः समुत्सर्पता शैत्येनावरभङ्गभयाद् दूरादेवं प्रवि [F. 7. B] [श]तो जनस्याभ्युत्थानमिव प्रतिदिशं कुर्वाणम्, उपरितनविटङ्कवेदिकास्वभितः समुल्लसन्तीभिर्मरकतमणिकान्तिभिर्दूरत एव निखिलभुव"नसन्तापकारिणां तपनतेजसां विनिवारणाय वियति वारिदवृन्दानीव निर्मापर्यंदसितमणिनिम्मितयोरुभयभागयोारस्य) प्रतिबिम्बितो(?) विपिनेपल्लवव्याजात् प्रविशतो जनस्य सन्तापज्वलनमाच्छिद्य बहिरिख स्थापयत् , सव्यापा] राभिरचितमणियत्रपुत्रिका "भिः पुरातनस्य वेधसस्त्रिभुवनेऽपि सृष्टिप्रपञ्चमिवोपहसत्, आस्थानभवनमिव वरुणस्य, सङ्केतनिकेतनमिव शिशिरसमयस्य, मङ्गलगृहमिव हिमाचलस्थलीदेवतानाम् , अस्तमयस्थानमिव ग्रीष्मोष्मणः, विलासमन्दिरमिव मकरकेतोः, क्रीडागारमिव शृङ्गार"सागरस्य, प्रवृत्तिस्थानमिव प्रावृषः, उत्पत्तिपत्तनमिव व्युत्पत्तेः, सर्वस्वमिव रामणीयकस्य, विलासम " [F. 8. A ] णिदर्पणो विदग्धतायाः, वाहेयक(?)मन्दिरं विलासानाम् , अतिशिशिरतया कर्पूरक्षोदैरिव निम्मितम्, हिमानीभिरिव विरचितम्, हिमांशुश"कलैरिव निष्पादितम्, गन्धाम्बुभिर्जनितातिसुरभितया च बकुलकुसुमामोदैरिवोत्पादितम् , ककोलफलक्षोदैरिव निर्मितम् , लवङ्गकुसुमैरिव जनितसंनिवेशम् , एलाफलरसैरिव विहितधारम् , सर्वतः प्रसृतवारिधारासहस्रतया विधातुरिमयीमिव सृष्टिं प्रदर्शयत्, अगम्यं दिनकरकरीणाम् , अदत्तप्रवेशं सन्तापस्य, अनभिभवनीयं विरहिजनाकल्पकस्य, दुःप्रेक्ष्यं विरहिणीविरहदावद"हनस्य, शैत्यस्यापि शिशिरोपचारस्थानम् , सुखानामपि सुखायतनम् , रामणीयकस्यापि रामणीयकम् , सर्वतः समुद्गतानां परस्परप्र"हतिविस्फटनविसृतार्णसां धारासहस्राणां परितः समुल्लसितसीकरासारतया कर्पूरक्षोदमिव दिक्षु विक्षिपत् , [F. 8. B] चन्द्रमणिघटितजलयत्रपुत्रिकानिष्यन्दहेतोयॊत्स्लामिव विकिरत् मिहिकानिवहमिव, समुद्वमद्धवलमणिमयूखसंवलितसलि"लतया मलयरजसमयीरिव धाराः समुद्गिरद्, विस्फुटितकमलभरभनोपरितनकमलिनीमृणालभङ्गेभ्यो विनिर्गतानि विसतन्तु सूत्राणीव धाराशतानि बिभ्राणम् , स्तम्भस्तम्भशीर्षकपट्टसालभञ्जिकानां परस्परसुसंहततया सु[सं] स्थानतया निविडसन्धिबन्धतया च नानार "ननिम्मितमप्येकरत्नोपलघटितमिव" भुवो निर्गतमिव कृत्रिममपि चाकृत्रिममिवोपलक्ष्यमाणम् , निधानं वृत्तेः, उद्गमस्थलं सलिलधा[ रा]0लतानाम् , आवासभवनं भुवनश्रियः, प्रमदवनं प्रमोदस्य, विकचकाञ्चनकमलकोशकोटर
१ °कुमारान्तःशरणा' । २ देवे । ३ °पदाद। ४ निम्मिततयो । ५ विपन। ६ °रचितो मणि । ७ पतन । ८ ग्यतयाः । ९ अगम्य । १० °वाराणम् । ११ स्यैतस्यापि । १२ विकिरिन् । १३ भंजिकान्य । १४ °तनिव । १५ भृत्रिम । १६ रूहुमस्थल । १७ प्रसद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org