SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ W शृङ्गारमञ्जरीकथा [धारानगर्या वर्णनम्] अस्त्यत्र निखिलभुवनैकललामभूताद्भुतनिजविभवापहस्तितत्रिदशनगरीविभूतिः प्रतिनिशमुत्तुङ्गसौधचन्द्रशालासञ्चारि"पौररमणीवदनेन्दुसहस्रैरेकेन्दुबिम्बमुपहसन्तीव दिवमुल्लसद्विमलस्फटिकोपलवेश्मरश्मिसन्तानैः स्फुरन्मरकतमणिप्रासाद"मयूखजालकैश्च निसर्गविरुद्धयोरपि तमश्चन्द्रिकयोः प्रतिविपणीमैत्रीमिव सम्पादयन्ती, विपुलवियद्विलङ्घनश्रमखिन्नवपुषां रवि"[F. 3. A ] रथतुरङ्गमाणां प्रतिसौधमनिलचटुलैर्ध्वजंपटपल्लवव्यजनैः स्वेदसलिलमिव व्यपनयन्ती, जीवितमिव वसुन्धरायाः, सारमिव संसारस्य, सर्व"स्वमिव विश्वस्य, विश्वासस्थानमिव सकलसम्पदाम् , आवासभूमिरिव विलासश्रियाम् , आभरणमिव भुवः, आश्रय [इ]व च त्रिवर्गस्य, सर्गशालेव निसर्ग कमनीयकामिनीजनस्य, प्रधानं निधानमिव रामणीयकस्य, निखिलजनलोचनानाममृतरसधारा धाराभिधाना नगरी। यस्यां च पाण्डुः स्फटिकवेश्मनामुन्मुखसञ्चयो विशराभः सुभद्राभिराममर्जुनमजनयदिशां चक्रवालम् । यस्यां च संवर्यते मरकतमणिकुट्टिमैः, विच्छिद्य ते स्फटिकप्रासादभूमिभिः, जर्जरीक्रियते कनकसौधोत्सङ्गैः, निपीयते पौरनारीवदनेन्दुचन्द्रिकाभिः, आप्याय्यते वातायनोद्गतागुरुधूप धूमजालैः, उपचीयत इवोपवनैः, छिद्यत इव जयकुञ्जरदशनकिरणविसरैः, निधीयत इवेन्द्रनीलमणिभूमिगृहकेषु प्रतिरजनि तमः" । [F. 3. B] यस्यां च सौधोत्सङ्गेष्वरुणमणिकुट्टिमसङ्क्रान्ताः शशधरमरीचयः सौगन्धिकवनभ्रान्ति प्रतिनिशमुत्पादयन्ति मुग्धव"निताजनस्य । या चोल्लसन्तीभिरमलस्फटिकासादपरम्पराकान्तिभिरुपहसतीव त्रिभुवनेऽपि पुरातनान्यखिलनगरसंनिवेश स्थानानि । या च संस्पृहमालोकयतः प्रासादमयमिव भुवनतलं केवलम् , सौधमय इव नूतनः सर्गावतारः, विधेर्दीर्घिकामयमिव महीमण्डलम् , उपवनमयमिव दिशां चक्रवालम्, पताकामयमिव गगनाङ्गणं प्रतिभासते जनस्य । ___ यस्यां च स्फटिककुट्टिमेष्वस्तमिता इव," मरकतमणिप्राङ्गणेषु निपीता इव, शोणमणिवेश्मवेदिकाविटङ्कोदरेषु क्रान्तसन्ध्याजलधरा इव, कालागुरुधूपधूमश्यामलेषु" स्फटिकवातायनेषु सहरिणच्छाया इव, वलभिकाचन्द्रमणिप्रणालीषु द्रुता इवाभिलक्ष्यन्ते प्रतिरजनि चन्द्रमसो रश्मयः । यस्यां [F. 4. A ] च जातप्ररोहा इव रुक्मनिर्गृहेषु, प्ररूढकाण्डा इव कार्तस्वरकेतुदण्डेषु, पल्लविता इव स्फुरदरुणमणिवेश्मशिखरशिखाशयेषु,' कुसुमिता इव निर्मितारुणमणिगणासु काञ्चनहंसपालिषु, फलिता इव प्रोल्लसदष्टापदघटितप्रासादकनककाण्डपिण्ड बिम्बामुप। २ ज । ३ °सायाः। ४ भूधाराश्रयव च । ५ आप्याज्यते। ६ भ्रान्ति । ७ प्राकासादपरपराकान्तिभिरुप। ८ संस्। ९ स्पटिक । १० दूता। ११ निमित।। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.002914
Book TitleSrngaramanjari Katha
Original Sutra AuthorBhojdev
AuthorKalpalata K Munshi
PublisherBharatiya Vidya Bhavan
Publication Year1959
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy