________________
श्री भोज देव विरचिता शृङ्गार मञ्जरी कथा
Docos[कथापीठिका]
[ मूलादर्श प्रथमं पत्रमनुपलभ्यम् ] [कदाचिद ?] वसितप्राये वसन्तसमये, परिणतप्रसूनतया कठोरितस्तवकेषु माधवीमण्डपेषु, विरलविरलमाबद्धलघुकफलशालिषु सह कारमञ्जरीजालकेषु, हूणरमणीकपोललावण्यलुण्टाकेषु विगलितप्रायेषु मधूकस्तबकेषु, प्रियतमनिपीतलाटीदशन"च्छदच्छायासादरेषु समुन्मिषत्सु पाटलाप्रसनेषु, मन्देष्वपि मन्दतामाश्रयत्सु मलयानिलेषु, बाल्यमुत्सृजन्त्याः किमपि किमपि ग्रीष्मश्रियः स्मितलवेष्विव विरलविरलेषु समुन्मिषत्सु मल्लिकामुकुलेषु, दोलान्दोलनकुतूहले शिथिलतामाश्रयति विलासिनीनां श्रयति च स्पृहणीयतामम्भाक्रीडासुखरसे, आबद्धबिन्दुप्रकरतया मन्दमन्दमरविन्देक्षणानां दन्तुरयति स्तनतटान्यनुहन्तुरे घ"मसलिलविसरे, शनैः शनैः प्रौढिमासादयति दिनभर्तुरनतिग्लपितशाद्वलश्या [F. 2. A ]मलिम्नि किरणजाले क्रमेण चोन्मिषति ग्रीष्मारम्भे, प्रमदवनमध्यवर्तिनो धारागृहस्येन्दुमणिमयीं मध्यभूमिकामध्यासीनः कतिपयैर्विद्वद्भिराप्तैः प्रणयिभिर्नृपतिभिश्वोपास्यमानचरणकमलो म हा राजा धि रा ज पर मेश्वर श्री भो ज दे वः सविनयं प्रार्थ्यत;" यथा- 'देवोऽप्यखिलजनतासुबन्धुः श्रीभासो गुणाढ्यः प्रशस्तगीर्वाणः । तदतिनिबिडकौतुकाचान्तचेतसामस्माकं प्रीत्यै व्युत्पत्तये च" कामप्यपूर्वां व्युत्पाद्य कथां कथयतु स्वामी' इति विज्ञप्तः स्मितपूर्वमिदमभ्यधात् 'एवमेतद्, किन्तु कथा हि कीय॑माना नगरादिवर्णनपुरःसराः सौन्दर्यमावहति । न चैतस्याः पुरीतोऽन्या विलक्षणा काचिदप्यस्तीति प्रथममेषैव वर्णनीया भवति । अस्याश्चाधिष्ठाहत्व"प्रसङ्गेनात्माऽपि भणनीयः। तच्चानुचितमिवास्मादृशाम् ।' इति श्रुतस्वामिवचनैस्तैः पुनरपि व्यज्ञप्यत-'यथा एतद्देवो जानाति न तथा"[ F. 2. B] स्मादृशाः । इदमखिलैरप्यलङ्कारकारैरभ्यधायि यथा
"स्वगुणाविष्क्रियादोषो नात्र भृतार्थशंसिनः"- इति ।।
तथा हि-मुनिभिरपि वाल्मीक-परा"शर-व्यासादिभिः, कविभिरपि गुणाढ्यभास- भवभूति-बाणप्रभृतिभिरात्मगुणाविष्करणमक्रियत । असद्गुणख्यापनं हि दोषाय । यथार्थ"गुणाख्यानं पुनरनवगीतमेव' इत्यभिहिते तानवादीत् 'भवन्तोऽपि नाविज्ञास्तद्यदि भवतामनवगीतमेतत् प्रतिभासते तदाऽऽवेदयामः श्रू"यताम् ।
भिस्याः कथाया भादर्शभूतायास्ताडपत्रीयप्रतिलिपेः प्रथमं पत्रं नोपलभ्यते । द्वितीयपत्रस्य प्रथमपंक्ताविदमाद्यमक्षरं विद्यते । भतोऽर्थानुसन्धानं विचिन्त्य कल्पनयाऽत्र कोष्टकगतान्यक्षराणि समुपन्यस्तानि ।
१ पसूनतया । २ कण्ठोरितत्स्तबकेषु। ३ भबद्ध । ४ संबन्धुः। ५ निबड। ६ व्यज्ञप्यते। ७ विक्रिया । ८ भवतम।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org