________________
.महाकविश्रीरामचन्द्रसूरिरचितं
माल्यवान् - हा देव दशकन्धर ! कामिमामश्रद्धेयामवस्थामाश्रितोऽसि ? | शुकनासः - आर्य ! व्यक्तमयं भ्रातृवत्सलः कुमारो विभीषणः प ( आकाशे ) मध्येऽम्भोधि बभूव विंशतिभुजं रक्षो दशास्यं पुनः, तत् पातालमही- त्रिविष्टपभटांश्चक्राम दोर्विक्रमैः । मस्तस्य मृणालतन्तुतुलया चिच्छेद कण्ठादवीं,
वैराग्यस्य च विस्मयस्य च पदं रामायणं वर्त्तते ॥ २४ ॥ त्रिजटा - भेट्टिणि ! अन्नारिसं किं पि विजाए वायाए सुणीयदि ? | सीता - मेह आसासणानिमित्तं निसायराणं खु एदं कवडें । ( इति चिताभिमुखमुपसर्पति । )
८२.
माल्यवन्तः - ( साश्रम् )
कच स्वर्गाधीशस्मयविजयचचुर्दशमुखः,
क च क्रीडाकारी शबरपृथुकाभ्यां परिभवः । न यो वाचः पात्रं भवति न दृशोर्नापि मनसस्तमप्यर्थं क्रुद्धो हतविधिरकाण्डे घटयति ॥ २५ ॥ सीता - (प्रदक्षिणीकृत्य ) भैयवं हुयासण ! नमो दे । ( नेपथ्ये ) मन्दं मन्दमयं जयम्त विहिता लम्बो हरिः शृङ्खलाव्याजिह्मांहिरुपैति राघवमभि व्रीडानमत्कन्धरः । भूयोऽपि त्रिदिवं नयन्ति मुदिताः स्वः सिन्धुरो चैःश्रवः
स्वर्गास्त्राsभ्रमु-कल्पपादप-निजप्रेयस्विनीः स्वर्गिणः ॥ २६ ॥
माल्यवन्तः - कथमयं दुरात्मा वनेचरः सीतामुपसर्पति १ । तदेहि शुकनाश ! प्रभुभक्तिसदृशमनुतिष्ठावः ।
( इति निष्क्रान्तौ । )
(ततः प्रविशति हनूमदादिश्यमानमार्गो रामः लक्ष्मणः सुग्रीव - बिभीषण - जाम्बवदादिकश्च परिवारः । ) रामः- ( ससम्भ्रमम्) हनूमन् ! किंनिमित्तमयममङ्गलाध्यवसायो देव्याः १ । हनूमान् - देव ! युष्मदादेशेन सीतास्वरूपविज्ञानायात्रागतवता तदिदममङ्गलमवलोकितम् । निमित्तं पुनर्नास्ति ज्ञातवान् ।
१ ) भट्टिनि ! अन्यादृशं किमपि विद्याया वाचा श्रूयते । २ ) मम आश्वासनानिमित्तं निशाचराणां खलु एतत् कपटम् । ३ ) भगवन् हुताशन ! नमस्ते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org