________________
रघुविलासनाटकम् - अष्टमोऽङ्कः । रामः- ( सानन्दम् ) देवि ! सौमित्रिसूत्रितस्य दशकन्धरवधनाटकस्य कोऽयमद्धतरसोचिते निर्वहणपर्वणि करुणरसोपक्रमः ? ।
सीता-(सत्रीड-रोमाञ्चमधोमुखीभूय स्वगतम् ) दिट्ठियां तेहिं य्येव लोयणेहिं अजउत्तो दिहो । हियय ! समस्सस समस्सस । मणोरधा वि दे एत्तियं भूमि न संपत्ता ।
विभीषणः-(साक्षेपं जनकं प्रति ) अरे सर्प ! कोऽयं प्रपञ्चः ? ।
जनकः-( सर्पकर्णरूपमास्थाय ) देव ! रावणादिष्टेन माल्यवता प्रपञ्चमनुकारितोऽस्मि ।
विभीषणः- (रामं प्रति ) वैदेहीविपन्नप्रवादोऽपि रावणादिष्टेन कुन्देन वियति विहितः।
रामः- ननु त्रिजटया समागत्य रावणाय देवीविपत्तिरावेदिता । विभीषणः-त्रिजटावेपधारिणी दारुणिका तदिदमनुष्ठितवती । रामः - वीरव्रतानुचितः क्रव्यादमत्रिणामयं प्रपञ्चविप्लवः, न पुनर्दशग्रीवस्य । निर्माय प्रतिवीरविक्रमका भव्यां त्रिलोकीमिमां, ___ वक्षश्चारकचारिणी भगवती साम्राज्यलक्ष्मी व्यधात् । स्त्रीहेतोश्च चकार सगरमखे वैदक्षिणां मूर्द्धभिः, ___ सार्द्ध यः स पुनर्महायॆमहिमा कोऽन्यो दशग्रीवतः ? ॥ २७ ॥
त्रिजटा-(रामं प्रति ) एंसा दे पिया देवी सीदा अखण्डिदसीला विजदि, तदो जं ते पडिहाइ तं करेसु। ...
रामः-( जाम्बवन्तं प्रति ) अमात्य ! तर्हि स्वीकारमर्हति । जाम्बवन्तः-देव ! कः सन्देहः । रामः-( सविनय-रोमाञ्चं सीतां प्रति ). प्राणान् यद् विरहेऽप्यहं विधृतवान् देवि! प्रियप्राणित
स्तत् क्षन्तव्यमशेषमेष समयः स्मेराक्षि ! नैव क्रुधाम् । सौमित्रेः कपिभर्तुरस्य च मनःप्रीत्यै तदेहि प्रिये!,
हस्तिस्कन्धमलङ्कुरुष्व ननु ते पूर्णः प्रतिज्ञाविधिः ॥२८॥ [सुग्रीवः- देव किं ते भूयः प्रियमुपकरोमि ? । रामः-किमतः परमपि मे प्रियमस्ति ?
१) दिष्ट्या तैरेव लोचनैः आर्यपुत्रः दृष्टः । हृदय ! समाश्वसिहि समाश्वसिहि । मनोरथा अपि ते एतावती भूमिं न सम्प्राप्ताः । २) कथावन्ध्यां त्रि° उ०। ३) एषा ते प्रिया देवी सीता अखण्डितशीला विद्यते, ततो यत् तुभ्यं प्रतिभाति तत् कुरुष्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org