________________
रघुविलासनाटकम् - अटमोऽङ्कः ।
(नेपथ्ये) वत्से जानकि ! परित्रायस्व परित्रायस्व । सीता-तिअंडे ! एस तादो जणओ पलवदि । हा दिव्य' किं नेदं उपस्थिदं ।
(ततः प्रविशति कल्यादेर्नियन्त्रितभुजो जनकः।) सीता-(विलोक्य सकरुणम् ) ताद ! किं नेदं ?।
जनकः-(सकरुणम् ) वत्से ! किं कथयामि मन्दभाग्यः ? । दुरात्मना रावणेन व्यापादितो रामभद्रः । अहं च वधार्थमादिष्टोऽस्मि ।
( सीता सहसा मूर्च्छति ।)
(त्रिजटा समाश्वासयति ।) सीता- (चेतनामास्थाय ) हा अजउत्त! हा तिहुयणेकमल्ल ! हा सुहय ! कहिं सि ? देहि मे पडिवयणं । ( इति प्रलपति । पुनरुत्थाय ) तिअडे ! अहं हुआसणमणुसरिस्सं ।
(प्रविश्य क्रुद्धः) राक्षसः- (क्रव्यादान् प्रति ) अरे दुरात्मानः ! किमर्थं सीतासविधमानीतः ? द्रुततरमेतं पितृवनमुपनयत । ( इति सरोष जनकमाकर्षति ।)
जनकः- ( सदैन्यम् ) वत्से ! अनुकूलय कथमपि दशकन्धरम् । देहि मे प्राणभिक्षाम् ।
सीता-ताद ! कीस गत्तराणं पाणाणं कदे अणुचिदे कम्मणि निओएसि ? । पइदेवदाओ कुलपुत्तियाओ हवंति । ता अहं हुयासणमणुसरिस्सं ।
(नेपथ्ये) भो भोः पलादाः! कथयत कथयत कथं वैदेही विपन्ना ?। माल्यवान् -दारुणिकाप्रपञ्चविप्रतारितः कोऽपि प्रलपति ? ।
(प्रविश्य सम्भ्रान्तः) हनूमान् -देवि ! अलमलमतिसाहसेन । कष्टं भोः! कष्टम् , कथमिदं रामभद्रस्यामङ्गलोचितमुपक्रान्तं देव्या ? । तदहं रणभूमिमुपसामि । ( इति निष्क्रान्तः ।)
(नेपथ्ये) अक्षतस्यैव सौमित्रेश्चक्रं यत् करमागमत् । तज्जाने दशकण्ठस्य कण्ठच्छेद उपस्थितः ॥ २३ ॥
१) त्रिजटे ! एष तातो जनकः प्रलपति । हा दिव्य ! किमिदमुपस्थितम् ?। २) हा आर्यपुत्र ! हा त्रिभुवनैकमल्ल ! हा सुभग ! कुत्रासि ?, देहि मे प्रतिवचनम् । त्रिजटे! अहं हुताशनममुसरिष्यामि । ३) तात! कस्माद् गत्वराणां प्राणानां कृते अनुचिते कर्मणि नियोजअसि!। पतिदेवताः कुलपुत्रिका भवन्ति । तद् अहं हुताशनममुसरिण्यामि ।
रघु. ना. ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org