________________
महाकविश्रीरामचन्द्रसूरिरचितं
जाम्बवान् - देव ! जाम्बवानहम्, न महाराजो दशरथः । सुग्रीवः - देव ! सुग्रीवोऽहम्, न कुमारो भरतः । ( प्रविश्य ) दधिमुखः - देव कपिकेतो ! भामण्डलो रामभद्रपादान् द्रष्टुमभिलपति । सुग्रीवः - अमात्य ! प्रविशतु भामण्डलः । सम्यगुपलक्ष्य प्रवेश्यताम् । ( दधिमुखो निष्क्रम्य सभामण्डल: प्रविशति । )
सुग्रीवः - देव ! भामण्डलः प्रणमति ।
राम: - ( सवैकल्यम् ) हनूमन् ! अम्मज्ज्ञातयः समागताः ? । ( प्रविश्य )
हनूमान् - देव ! एताः समायान्ति ।
विभीषणः - देव ! सीतासहोदरो भामण्डलः प्रणमति । राम: - भामण्डल ! कुशलं तातजनकपादानाम् १ |
भामण्डलः - प्रतिचन्द्रनामा विद्याधरः शल्यसमुद्धरणोपायमा वेदयितुकामो देवपादान् द्रष्टमभिलपति ।
सुग्रीवः - विद्याधरोऽसौ निशाचरो वेति कः प्रत्येति ? |
भामण्डलः - सङ्गीतपुरराजस्य शशिमण्डलनाम्नो विद्याधराधिपतेस्तनयं नम्हमुपलक्षयामि ।
रामः - ( सौत्सुक्यम् ) सत्वरं प्रवेशय ।
६०
( ततः प्रविशति गवय - गवाक्षविधृतः प्रतिचन्द्रः । ) प्रतिचन्द्रः - ( प्रणम्य ) देव! कौतुकमङ्गलनगराधिराजस्य कैकेयीबन्धोद्रणघनस्य विशल्या नाम कन्यका समस्ति ।
रामः - ततः किम् ?
प्रतिचन्द्र:- सूर्योदयादवगेव तस्याः स्नानपानीयेन कुमारो यद्यभिषिच्यते तदानीं तदात्व एवापगतशल्यो भवति ।
रामः - (सरोमाञ्चम् ) भूयोऽप्येतदेव श्रावय
( प्रतिचन्द्रः तदेव व्याहरति । )
राम: - ( सदैन्यम्) भो भोः प्लवङ्गमवीर प्रकाण्डानि ! कोऽप्यस्ति वरूथिन्यामस्यां सकलजङ्घालशिरोरत्नं विद्याधरः ? यः सहस्रकरोदयादवगेव तां विशल्यां समानीय लक्ष्मणप्राणप्रयाण प्रतिरोधेन रघूणां कुलमाश्वासयति ।
हनूमद् - अङ्गद - भामण्डलाः -- ( प्रणम्य ) देव ! वयमिदमाधातुं प्रभामहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org