________________
रघुविलासनाटकम् - षष्ठोऽङ्कः । रामः--(सविनयम ) व्रजत तर्हि यूयम् ।
( हनूमदादयः प्रणम्य निष्क्रान्ताः ।)
(नेपथ्ये) शक्तिप्रोतमवेक्ष्य लक्ष्मणमयं वक्षाकपाटोदरं,
देवः श्रीरघुसन्ततिप्रसविता प्रम्लानवक्त्राम्बुजः । शल्योद्धारविधायिनी मृगयितुं स्फूर्जत्प्रभामौषधि, __कामप्यञ्चति पश्चिमाचलवनक्षोणी प्रभाणांपतिः॥ १७॥
जाम्बवान् -देव ! शुभोदकं मागधः पठितवान् । तदिदानी शुचमपहाय क्षणं सनामश्रमोऽतिवाह्यताम् । रामः-- यदावेदयति मत्री तदस्तु ।
(निष्क्रान्ताः सर्व ।) ॥ इति पष्ठोऽङ्कः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org