________________
५९
रघुविलासनाटकम् - पष्ठोऽङ्कः ।
विभीषणः- देव निद्रायते कुमारः । ततः क्षणं स्थानान्तरमलङ्कियताम् । रामः - ( संवैकल्यम तर्हि यावन्निद्रायति कुमारस्तावदहं पितृभ्यो गत्वा समरसङ्कथां विज्ञापयामि । ( पुनर्लक्ष्मणं प्रति )
वत्स ! त्वां समरे विहाय निहतं यातेन तां स्वां पुरीं
मातुस्त्वन्मुखीक्षणोत्सुकशः किं ब्रूहि वाच्यं मया ? | व्यक्तं मे वदनं न पयति पुरा बन्धुक्षयाधायिनः, कौशल्यापि रहः किमपरं सर्वोऽपि लजिष्यते ॥ १२ ॥ सुग्रीवः अमात्य ! प्रगुणय चिताम् ।
(जावान गवाक्ष कर्णे एवमेव । ) (वा निष्कान्तः ।)
रामः -
संदैन्यम )
मातः क्षत्रियपक्षपातनिरते मृदेवते । भ्रातरौ
सूर्या - चन्द्रममौ । सखे ग्रहगण ! व्यालम्व्य लम्बां कृपाम् । लङ्कां दत्त विभीषणाय, दिशत क्षेमाणि सौमित्रये,
भिक्षां प्राणमयीं प्रयच्छ व शुचा क्षामाय रामाय च ॥ १६ ॥
( गुनः संवैकल्यं हनुमन्तं प्रति) कुमुद । हनूमन्तं द्रष्टुमिच्छामि ।
हनुमान - देव ! हनूमानहम् ।
सुग्रीवः - देव ! हनुमानयम् ।
रामः - हनूमन् ! गत्वा विज्ञपय तातमम्बा कौशल्यां मातरं सुमित्रां सवित्रीं कैकेयीं वत्स भरत शत्रुघ्नौ च । यथा - परलोकं प्रवसतो राम-लक्ष्मणयोरात्मपादान्
दर्शयत ।
सुग्रीवः -- ( हनुमन्तं प्रति कोऽयं चेतनाच्यामोह : ? । भवतु तावत् | क्षणं बहिः स्थित्वा समागच्छ ।
( हनुमान निष्क्रान्तः । ) नेपथ्ये )
भो भोः ! त्वरन्तां त्वरन्तां कपयः !, समारवयत चितासहस्राणि, चन्दना - Sगरु- देवदारुप्राग्रहराणि दारूणि ।
रामः ( जाम्बवन्तं प्रति ) तात ! ( सुग्रीवं प्रति) वत्म भरत ! |
--
१ ) रघुवः ३० ।
Jain Education International
For Private & Personal Use Only
उपनयत
www.jainelibrary.org