________________
५४
महाकविश्रीरामचन्द्रसरिरचितं
( प्रविश्य ) वानरः- आर्य ! सुषेणो विज्ञपयनि- शक्रजित् - कुम्भकर्णपभृतीनि समरसङ्ग्रहीतानि वीरप्रकाण्डानि कथमासताम् ? ।
जाम्बवान् - निगडजडितानि मारय । ( विमृश्य ) अरे ! कपिवीराः कियन्तो विपन्नाः ?।
वानरः-चतुर्दशायुतानि । ( इत्यभिधाय निष्क्रान्तः । ) रामः- वत्स! किं ते बाधते । लक्ष्मणः- ( मन्दस्वरम् ) न किञ्चित् । ( पुनरपवार्य सुग्रीवं प्रति )
वाचः स्खलन्ति, गात्राणि शुष्यन्ति, भ्रश्यति स्मृतिः।
याति ध्यामलतां दृष्टिः, श्रोतुं श्रोत्रं न काङ्गति ॥२॥ सुग्रीवः- ( ससम्भ्रमम् ) जलं जलम् । हनूमन्तः - देव ! इदम् । सुग्रीवः - सर्वाङ्गीणमभिपिञ्चति । लक्ष्मणः-चापं चापम् । सुग्रीवः-किमर्थम् ?।। लक्ष्मणः-जलोपसेकेन मनागपहृतपीडोऽस्मि ततः समरमनुसर्तुमिच्छामि । सुग्रीवः- साधु वीरावतंस ! साधु ।
(रामोऽङ्गानि संवाहयति ।) लक्ष्मणः-आर्य ! अलमलं विनयातिपातेन । रामः- वत्स ! किं ते वाचते ? ।
(लक्ष्मण: वेदनामभिनीय तृप्णीमारते । ) रामः-(साश्रम् ) धीरोत्तंस ! पराक्रमैकशरणे, धोरेय ! तेजस्विनां, ___ स्थाम्नां धाम !, कृतज्ञ विज्ञगरिमावास!, प्रवास ! द्विषाम् । गम्भीर ! प्रतिपन्नवत्सल ! महात्यागिन् ! शरण्याग्रिम !।
ज्येष्ठे क्रन्दति बान्धवे मयि निजे दृष्ट्या प्रसीद क्षणम् ॥ ३ ॥ (पुनरुच्चैःस्वरम् ) तात लक्ष्मण !। लक्ष्मणः-(चेतनामास्थाय ) आदिशत्वार्यः । रामः-(साश्रम् ) संरब्धे प्रतिपन्थिनि प्रतिदिशं वाचंयमो मास्म भूः,
सन्तप्तान् हृदयङ्गमेन वचसा सन्तर्पयाऽस्मान् क्षणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org