SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् - षष्टोऽङ्कः । वानरः-साम्प्रतं च स्वयं रावणः समरमलङ्कृतवान् । जाम्बवान् -( सभयम् ) यदि रावणः स्वयमायातवान् महांस्तहि समरसंरम्भः पम्भाव्यते । चन्द्रराशि:-( सत्वरम् ) आर्य ! अहं समरमधिष्ठास्यामि । (इति निष्क्रान्तः ।) (प्रविश्य सम्भ्रान्तः) गोमुखः -आर्य ! कपिकेतुः समादिशति । जाम्बवान् -(ससम्भ्रमम् ) किमादिशति ? । गोमुखः-आर्य ! अत्याहितं अत्याहितम् । जाम्बवान्-विश्रब्धमभिधीयताम् । गोमुखः- अष्टप्राकारं चतुर चमूचक्रेण वलयामुखं नाम व्यूहं कारय इत्यादिशति । जाम्बवान् -अरे वानर ! अत्रार्थे यूथपतीन् प्रगुणय । (वानरो निष्क्रान्तः।) ___ ( नेपथ्ये ) हा वत्स ! हा त्रिभुवनैकमल्ल ! हा शौण्डीरकुञ्जर !। जाम्बवान् -(सभयम् ) गोमुख ! किमिदम् ? । गोमुखः-( साश्रम् ) दिव्यशक्त्या शक्त्या रावणेन लक्ष्मणो वक्षसि ताडितः । जाम्बवान् - उपस्थितस्तर्हि बलीमुखवंशस्य क्षयकालः। (ततः प्रविशति राम-सुग्रीवाभ्यां दत्तहस्तावलम्बः शक्तिसक्तवक्षा लक्ष्मणः, बिभीषण १ अङ्ग २ अङ्गद ३ हनूमत् ४ पवनञ्जय ५ चन्द्रराशि ६ कुन्द ____७ कुमुद ८ गवय ९ गवाक्ष १० प्रभृतयो वनौकसश्च ।) जाम्बवान् -( सुग्रीवं प्रति ) व्यूहमध्यमध्यास्तां कुमारः। सुग्रीवः - ( ससंरम्भम् ) पर्यङ्कः पर्यङ्कः । ( प्रविश्य वानरः पर्यङ्कमुपनयति) ( लक्ष्मणः सरामो निषीदति ।) रामः- (साश्रम् ) हा वत्स!। सुग्रीवः - अमात्य ! व्यूहद्वाररक्षायां भामण्डलप्रभृतीन् यूथपतीनवधापय । (जाम्बवान् गवयस्य कर्णे एवमेव ।) (गवयो निष्कान्तः।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy