________________
रघुविलासनाटकम्-षष्ठोऽङ्कः । हेवाकः क स ते जगत्रयभयप्रत्यासदीक्षोन्मुखः?, __ कोऽयं वीरमृगाङ्क ! कातरकलाशाली रणानुद्यमः?॥४॥ लक्ष्मणः-सुग्रीव ! सन्धीरय आर्यम् । सुग्रीवः -- देव ! कोऽयं रघुकुलविरोधी धैर्यध्वसविप्लवः १ । लक्ष्मणः - हनूमन् ! सतूणीरं चापं सूर्यहासं चोपनय । हनूमन्तः -इदम् । लक्ष्मणः-विभीषण ! पाणी मे योजय।
(विभीषणस्तथाकरोति ।) लक्ष्मणःभ्रातः कार्मुकदण्ड ! मित्र शरधे ! श्रीसूर्यहास प्रभो!,
क्षन्तव्यं विनयकमातिपतनं कार्यः प्रयत्नस्तथा। आर्यः प्रीणयते यथा जनकजामस्मान् धिगात्मम्भरीन्, प्रीणात्येव बिभीषणः खलु यथा लङ्काधिपत्यश्रियम् ॥ ५॥
(विभीषणः सलजमधोमुखरितष्ठति ।) सुग्रीवः -- साधु साधु उदात्तावतंस ! साधु । लक्ष्मणः- (वेदनामभिनीय बिभीषणं प्रति) शयितुमिच्छामि ।
(सर्वे उत्थाय पर्य के शाययन्ति ।) रामः-( ससम्भ्रमम् ) वत्स! किं त्वां व्यथयति ? । लक्ष्मणः -आर्य ! चरणाम्भोजप्रणयप्रवासो मां व्यथयति । रामः-(साक्षेपम् ) धिग वाचस्तव मङ्गलप्रशमिनीरिक्ष्वाकुवंशाशिव
क्षोदिन्यः प्रणयप्रवासविपदं देव्यो हरिष्यन्ति नौ । सोढव्यः स पुनर्निमील्य नयने कालः करालाकृति___ यावद वत्स! करोति हेतिपटलैमी भस्मसात् पावकः ॥ ६॥ विभीषणः-प्रतिहतममङ्गलम् । जाम्बवान् - देव ! कोऽयं त्रिभुवनामङ्गलश्ररोहहेतुाहारः ? । रामः-अमात्य! विनाऽप्याज्ञा राज्ञः किल रघुपतेः काननमर्य,
मया साई वत्सः सहजविनयादेव समगात् । १)प्रमथिनी उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org