SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रसरिरचितं ( ततः प्रविशति सीता त्रिजटा च । ) सीता - किञ्चं तियडे ! जो पहुदि अहं आणीदा नदो पहुदि अन्थि एदम्मि अत्थे अहिलासो | ३४ रावणः ( श्रुत्वा सप्रमोदम् ) एतस्मिन रावणानुसरणेऽस्त्यभिलापः । केयमन भ्रा श्रवगोपलानां सुधावृष्टिः ? । कोऽयं दुम्नपतपःप्रसूतस्य प्राचीनपुण्यस्य विपाकप्रकर्ष: ? । (पुनरात्मानमवलोक्य) वक्त्राणि हे ! हसत गायन तारतारं, नेत्राणि ! चुम्बत विहस्य च कर्णपालीम् । दोवलयः ! कुरुत ताण्डवडम्बरं च श्रीरावणं ननु विदेहसुता रिरंसुः ॥ १० ॥ भवतु । पुरः समाकर्णयामि । सीता -- पंडिदिगं च एदं पडिवजिदं समीहामि । रावणः - यदि मां प्रतिदिनं प्रतिपत्तुं समीहते तदानीं किं प्रत्यूहनिदानम् ? | सीता - परं अजउत्तस्स हणूमंतमुहादो कुसलवत्तं सुणिय पुणो वि मे हिययं साविक्खं जादं । रावणः - (विमृश्य ) निथितं रावणानुसरणे जनकदुहितुः शवरप्राणितावस्थानं प्रत्यूहः । निमिकुलप्रसूता खल्वियं महासत्त्वप्रकृतिश्व जानकी न प्रभवति परिणेतार प्राणति रिरंसुरपि पत्यन्तरमाधातुम् । (विचिन्त्य ) यदि राघवतिरस्कारेण जानकीजानितां कलयति दशकन्धरस्तदानीमत्यल्पमौपयिकम् । ( सरजम् ) शवरपराजयः परः कलङ्की रावणपराक्रमस्य । भवतु तावत् | दोर्दण्डान् सान्त्वयामि । avi क्षणमुपेक्ष्य है नयत राघवं लाघवं पुरन्दरपराक्रमग्लपनचञ्चवो बाहवः । यदि स्फुरति जानकी जघनपीठ कण्ठस्थलीकपोलफलक-स्तनस्तबक केलिकौतूहलम् ॥ ११ ॥ भवतु । * [ सीता - (त्रिजटां प्रति ) यदि रामः कदाचिदपि विनाशं यास्यति तदाऽहं हुताशनं साधयिष्ये | 1) किञ्च विजये ! यतः प्रभृति अहं आनीता ततः प्रभृति अस्ति एतस्मिन् अर्थ अभिलाषः । २ ) प्रतिदिनं च एतत् प्रतिपत्तुं समीहै । ३ ) परं आर्यपुत्रस्य हनुमन्मुखात् कुशलवा पुनरपि मम हृदयं सापेक्षं जातम् । ४ ) अवान्तरे ताडपत्रीयप्रतिसकं ६ तमं पत्रं नष्टं वर्तत इति afण्डतांशस्थाने उद्धारगतोऽशोऽत्रोद्धृताऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy