SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ रघुविलास नाटकम् - चतुर्थोऽङ्कः । ( इति भणितानन्तरं रावणचिन्तयति ) केयं कालकूटवृष्टिः ? | ददाति रागिणी प्राणानादत्ते द्वेषिणी पुनः । रागो वा यदि वा द्वेषः कोऽपि लोकोत्तरः स्त्रियाः ॥ १२ ॥ अन्यत । ] मन्यथाभियाति । शरनिकरं वर्षत्यपि भगवति मदने घनेऽपि च प्रेम्णि । प्रायेण स्त्री कथमपि धैर्य न जहाति पुरुष इव ॥ १३ ॥ सीता - अंवि य जीवंतिं जइ मं अजउत्तो पेच्छे ता सिडिलपेम्मो हवे । [ जओ- ] जम्मि विउत्ताइं पुणो जीवंताई मिलति मिहुणाई । पेम्मम्मि तम्मि छेया किं कह वि क्रयायरा हुंति ? ॥ १४ ॥ रावणः - अयि स्मरनगरनागरिके ! विष्टपदृष्टिचकोरीचन्द्रिके । शृङ्गाररसभृङ्गारकल्पामनल्पार्थामेनामेव गाथां भूयोऽप्यभिवाय सुधासारेणाभिपिश्च श्रवणोत्पलकाननं दशाननस्य । ( सीता सरोपमधोमुखी तिष्ठति । ) रावणः - ( सप्रमोदम् ) कलकण्ठ ! देव्या वक्त्रमलाञ्छनस्तुलयति श्वेतद्युतिः पार्वणो, वाचां पाकमपाकरोयलवणोदन्वत्प्रबुद्धा सुधा । अम्भोजानि दृशोरनश्वर विकाशानि श्रियं बिभ्रते, कम्बुः कण्ठकलां प्रभुः कलयितुं कौटिल्यवन्ध्योदरः ॥ १५ ॥ ( सीतां प्रति ) हरौ चरति चारकाश्रमतपस्वितां तां शचीं, भुजिष्यदयितेति यः परिरिरंसुमप्यस्तवान् । स्वयं स दशकन्धरो विनयवामनैराननैः, स्तुवन् सुदति ! याचते वचनहन्तकारं त्वयि ।। १६ ।। त्रिजटा - भट्टिणि ! कीस लंकापरमेसरो संभासनमित्त केणावि न सम्भावीयदि ? | सीता - तियंडे ! नाहं पाविट्ठाणं पारदारियाणं संभासणं करेमि । १ ) अपि च जीवन्ती यदि मां आर्यपुत्रः प्रेक्षेत तत् शिथिलप्रेमा भवेत् । [ यतः - ] यस्मिन् वियुक्तानि पुनः जीवन्ति मीलन्ति मिथुनानि । ३५ प्रेम्णि तस्मिन् छेकाः किं कथमपि कृतादरा भवन्ति ? | २) स्वामिनि ! कस्माद् लङ्कापरमेश्वरः सम्भाषणमात्रकेणापि न सम्भाव्यते ? । ३) त्रिजटे ! नाहं पापिष्टानां पारदारिकाणां सम्भाषणं करोमि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy