SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् - चतुथाऽङ्कः । किञ्च -- दिनकर : कृपयैव प्रेरितश्चत् तदास्य, व्यतिषज विधुरस्य प्रेयसी चक्रनाम्नः । अथ फलमपि किश्चित् काङ्गसि क्लेशल भ्यं. घटय ननु तदानीं जानकी रावणस्य ।। ९॥ के कुन्तलकं प्रति ) कलकण्ठीबहलकलकलोपद्रुतश्रवणोत्पलैरस्माभिरमीभिः समानव्यसनीधिकाचक्रवाकमिथुनः समं क्षपा क्षयं लम्भिता । ( कलकण्ठ उपमृत्य प्राणमति) रावणः - ( साक्षेपम् ) सौविदल्ल! निशीथसमादिष्टस्य कृत्यस्य कोऽयं कालविलम्बः ? । कलकण्ठः - ( समयम् ) देव ! निशीथ एव कुम्भकर्णप्रयाणप्रवादः कृतः पुरस्त्रिजटायाः। रावणः-जानकी श्रुतवती । कलकण्ठः --अथ किम् ? । रावणः -- श्रुत्वा किमाह ? | कलकण्ठः--न रघवः कुम्भकर्णपराक्रमस्य विषय इत्याह । रावणः - अपरं निशीथसमादेशं कः प्रतिविधास्यति ? । कलकण्ठः-शुकनाशः प्रतिविधास्यति । रावणः - (स्मृत्वा ) वनेचरप्रेपितेन तेन बलीमुखडिम्भेन कि किमाचरितम् । कलकण्ठः-वरेचरस्थाभिज्ञानमूमिका सीताया बलीमुखः समर्पितवान् कुशलकथां च प्रथितवान् । ( पुनरपवार्य कुन्तलकं प्रति ) यत् पुनरुद्यानं भन्नम् , अक्षकुमारो व्यापादितः, शतशो लङ्काहाणि पातितानि, तदतीवलजानरकर मनाख्यानमेव शोभामावहति । कुन्तलकः-देव ! ताराभिलापिणं सुग्रीवरूपधारिणं साहसगतिनामानं विद्याधर व्यापाव वर्षीयान् वनेचरः सुग्रीवाय सतारां किष्किन्धा दत्तवानिति किंवदन्ती। रावणः -- ( कृतकमनाकर्णितकेन ) सोविदल्ल! दर्शय पन्धानं येन निकीचरणाम्भोजसपासुखमनुभवामि । (सर्व परिकामन्ति । रावणः -- ( ऋण दस्ता त्रिजटया मह सीता किमपि मत्रयते तत् तिरोहिता एव क्षणमाकर्णयामः। पु. ना. ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy