SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ २० महाकविश्रीरामचन्द्रसूरिरचितं भग्ने कोदण्डदण्डे शरधिशरभरे वह्निबाणेन दग्धे, रे रे दास! क यासि ? स्मर किमपि खरः सोऽहमग्रे कृतान्तः ॥ २५ ॥ रावणः - ( सप्रमोदम् ) साधु प्रहस्त | साधु | सीता - ( सरोषम् ) अंज्जउत्त ! एसो वि हरिसजम्मा सीहणाओ ? । रामः - ( सखेदम् ) व्यक्तं पराभूतो वत्सः । देवि ! पुनर्वत्सं सम्भावयामि । ( चापमादाय त्वरिततरं निष्क्रान्तः । ) रावणः - सम्प्रति रावणस्यावसरः । ( विमृश्य ) सती खल्वियम्, न शक्यते सावधानाsपहर्तुम् । भवतु | ( उच्चैःस्वरम् ) आः क्षुद्रे म्लेच्छपत्नि ! स्मर गुरुविधुरा दैवतं किञ्चिदिष्टं, लोलद्दम्भोलिकेलिव्रणितकर तल स्त्रातुमिन्द्रोऽपि नालम् । शम्बुप्राणप्रयाणभ्रकुटिव हलितक्रोधमैत्रीकरालः, वनदेवतास्ते शरणम् । अहं कालः कालुष्यभाजां हरति खलु खरस्तुलहारं शिरस्ते ॥ २६॥ ( सीता सभयमाकर्ण्य मूर्च्छति । ) ( रावणस्तामादाय पुष्पकमधिरोहयति । ) सीता - ( चेतनामास्थाय साक्रन्दमुच्चैः स्वरम् ) हो अञ्जउत्त ! हा वच्छ लक्खण ! हा ताय जणय हा भाय भामण्डल ! हा वणदेवयाओ अंबाओ ! रक्खेह मं असरणं रक्खसे निजंती | रावणः -- आनन्दामृतसारणि । त्रिभुवनप्रह्लादनाचन्द्रिके !, कोऽयं देवि ! विमर्शवन्ध्यमहिमा वाग्विषां विक्रमः ? | रक्षोमात्रमवेत्य मां किमु मुधाssऋन्दाकुला खिद्यसे ?, दासस्ते ननु वीरकुञ्जरभुजः सोऽहं पुरो रावणः ॥ २७ ॥ सीता - ( सरोषम् ) अरे रतिंचर! पारदारिय ! मुञ्च मं । अन्नहा सरद्वं ससंताणं निविस्सदि तुमं वच्छो मे लक्खणो । रावणः - अहह ! कर्कशभाषिणी मानुषी, तत् किमेतां चन्द्रहासेन व्यापाथ क्षिपामि वारांनिधौ ? | ( पुनः सखेदम् ) किमिदमजाकृपाणीयं कर्म ? । ननु एतया १ ) आर्यपुत्र ! एषोऽपि हर्षजन्मा सिंहनादः ? । २) हा आर्यपुत्र ! हा वत्स लक्ष्मण ! हा तात जनक ! हा भ्रातः भामण्डल ! हा वनदेवताः अम्बाः ! रक्षत मां अशरणां राक्षसेन नीयमानाम् । ३) न्दाश्रुसुसारणि ! उ० । ४ ) अरे रात्रिञ्चर! पारदारिक! मुञ्च माम् । अन्यथा सराष्ट्रं ससन्तान निष्ठापयिष्यति त्वां वत्सो मे लक्ष्मणः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy