SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रसूरिरचित लक्ष्मणः-( साहकारम् ) आर्ये ! मा भैषीः । आर्ये ! करकलितधन्वनि को नाम साध्वसानामवसरः । रावणः-( सप्रमोदं प्रहस्तं प्रति) यस्याः पाणिमवाप्य काननचरः सोऽयं स्पृहायाः पदं, द्यावा-क्ष्माविजयोन्मदिष्णुमनसो लक्केश्वरस्याप्यभूत् । धातुः शिल्पकलाकलापनिकषः स्वर्भूर्भुवश्चक्षुषां, निर्माणस्य फलं स्मरास्त्रमसमं सेयं विदेहात्मजा ॥५॥ ( पुनः सहर्षम् ) प्रहस्त! पश्य पश्य, बाह्यनेपथ्यैरकदर्थितो विदेहराजदुहितुरङ्गसन्निवेशः । यतः वक्रं चन्द्रविलासि, पङ्कजपरीहासक्षमे लोचने, __ वर्णः वर्णमपाकरिष्णुरलिनी जिष्णुः कचानां चयः। वक्षोजाविभकुम्भविभ्रमकरौ, गुर्वी नितम्बस्थली, वाचां मार्दवमुज्वलं युवतिषु स्वाभाविकं मण्डनम् ॥ ६ ॥ ( पुनः साभिलाषम् ) विफल एव ममावतारो जगति यदि विदेहजां विमानराजमारोप्य सलीलं नभसि न क्रीडामि । भवतु ! वेषान्तरेण सनिधाय निपुणमालोकयामि । ( पुनः प्रहस्तं प्रति ) वनितावेषो भव । ( पुनः प्रभञ्जनस्य कर्णे एवमेव । ) (प्रभञ्जनो निष्क्रान्तः ।) ( सर्वे भूम्यवतरणं नाटयन्ति ।) रामः- ( विलोक्य सविस्मयम् ) कथमयं निर्मानुषप्रचारायां दण्डकायां नागरिकः ? । तत्रापि क्षत्रियकुमार इव । स्वागतं महापुरुषाय । ( रावणः सर्वेषां प्रणम्य सविनयमुपविशति ।) ( प्रहस्तः सीतायाः पादौ संस्पृश्य सलज्जमुपविशति । ) रामः- महाभाग ! को भवान् ? कथं वाऽस्यां निर्मानुषप्रचारायां दण्डकायाम् ? किमर्थं चास्मान् पवित्रितवानसि ? । रावणः - पाताललङ्कापतेश्चन्द्रोदरस्य विराधनामा सूनुरहम् । चन्द्रोदरं च व्यापाद्य दशकन्धरो भगिनीपतये खराय पाताललङ्कां दत्तवान् । अहं च ततः प्रभृति भ्रष्टराज्यो रावणप्रतिभयेन अत्रत्यतापसपर्णशालामु निलीनस्तिष्ठामि । इयं च मे सधर्मचारिणी। शम्बूकवधप्रभवं च राक्षसोपप्लवं विज्ञाय युष्माकं समयोचितं साहाय्यमाधातुमुपागतोऽस्मि । १) शल्याला उ ठाया ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy