SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् -द्वितीयोऽङ्कः। अन्यस्यापि महोत्सवस्य तममुं चूडामणिं मन्यते, पौलस्त्यो भविता क्षणे जनकजा यत्रास्पदं चक्षुषाम् ॥२॥ ( प्रहस्तं प्रति ) कं प्रदेशमलङ्करोति पुष्पकम् ? । प्रहस्त:- देव! प्राप्ता एव दण्डकाम् । रावणः- ( सहर्षम् ) व्योमन्यत्र निषीद वाहनमहाराज ! प्रसीद क्षणं, कल्पोत्ताल ! समीर ! वीरजयिनी जकालतां संवृणु । प्राप्नोत्वेष चिरादशेषकरणग्रामश्रमच्छेदिनं, सीतावक्रसरोजदर्शनसुधापानोत्सवं रावणः ॥ ३ ॥ ( विलोक्य ) कथं निरुद्धवेग एव विमानराजः ?। यदि वा जानकीदर्शनोत्कलिकाशङ्खलाभिः सकर्णः को नाम न निरुध्यते ? । (उभौ उपसृत्य प्रणमतः ।) रावणः-अये प्रभञ्जन ! कियति दूरे खर दूषण-त्रिशिरसः ? । प्रभञ्जन:- नेदीयांस एवैते दण्डकायाः । रावणः-(वैनतेयं प्रति ) व तौ ? । वैनतेयः - देव ! एतौ लतागृहे । रावणः- (सामिलापम् ) तदपि विष्टपदृष्टिचकोरीचन्द्रिका स्त्रीरत्नमत्रैव ? । वैनतेयः- अत्रैव । रावणः- अनुभवामस्तर्हि नेत्रनिर्माणस्य फलम् । वैनतेयः - इत इतो देवः । ( सर्व परिकामन्ति ।) वैनतेयः- देव ! ताविमौ, तदिदं स्त्रीरत्नम् । (ततः प्रविशतो राम-लक्ष्मणौ सीता च ।) रामःअभूमिर्भातीनां भुजविजितसीमान्तनृपतिः, प्रियेऽसौ सौमित्रिः कुवलयदलश्यामलतनुः । स्फुलिङ्गोग्रच्छायाच्छुरितमसियष्टिं प्रतिवहं स्तडित्तेजोभाजः कलयति समृद्धिं जलमुचः ॥ ४ ॥ सीता-(सभयम् ) अजउत्त! तुवं पि एदिणा खग्गलाहेण हरिसमुन्वहसि । अहं उण दुट्ठरक्खसीचरिदं निरूविय कंपंती चिट्ठामि । १) आर्यपुत्र ! त्वमपि एतेन खड्गलाभेन हर्षमुद्वहसे । अहं पुनः दुष्ट राक्षसी चरितं निरूप्य कम्पमाना विटामि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy