SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ रघुविलासनाटकम् - द्वितीयोऽङ्कः । १३ लक्ष्मणः - ( सरोषम् ) रघवः परेभ्यः साहायकमपेक्षन्त इति कोऽयं वचो - व्यामोहः ? | रावणः - यदा न साहायकं तदा समयोचितं किमपि विज्ञपयितुमागतोऽस्मि । लक्ष्मणः - विज्ञपितेनाप्यलम् । प्रथय तावद् रावणस्य पराक्रमकथाकन्थाम् । रावण: - ( विहस्य ) उदीचीं रुन्धाने कलशभुवि विन्ध्यः पुनरपि, प्रवर्द्धताद्रीणामथ च न निषेद्धा तदपरः । तदेवं देवानां भयमभवदष्टापदगिरौ, यदुत्क्षिप्ते लङ्कापतिरयमपन्थाः स्तुतिगिराम् ॥ ७ ॥ लक्ष्मणः - ( सावज्ञम् ) कैलाशं स किल क्षपाचरपतिर्मूर्ध्ना समुत्क्षिप्तवान्, एतेनोर्जितमार्जिता किमधुना वाहीकवृत्तेन नः ? | काञ्चित् खड्गकषोपलोपलिखितां तां ब्रूहि चर्या यया, प्रत्यासीदति दुर्विदग्धमनसां चित्तं रघूणामपि ॥ ८ ॥ रावणः - ( सरोषमात्मगतम् ) अहह ! पराक्रमसर्वस्वलुण्टाको दुरात्मा काननचरः । तत् किमेतस्यामुना चन्द्रहासेन शिरः पातयामि ? | ( चन्द्रहासं परामृशति । पुनः सविमर्शम् ) कोऽयं प्रस्तुतप्रत्यूहकारी रोषविप्रुषां परामर्श: ? । भवतु । ( प्रकाशं कृतकं विहस्य) कुमार ! कतिशस्तुभ्यमभ्यर्णजनमनः प्रमोदिनीः पुलस्त्यनन्दनस्य चर्याः सङ्कीर्त्तयामि ? | तथा हि मुखानि दश, हैया-मरपती च गुप्तिस्थितौ, पदं जलधिमूर्द्धनि, स्फटिकपर्वतः कन्दुकः । अवाङ्मनसगोचरं चिरमुपादधद्विस्मयं, स्मयग्रहिलदोस्ततेर्जयति जन्म लङ्कापतेः ॥९॥ सीता - 'हीमाणहे ! दहमुह त्ति सुणिय वेवदि ने हिययं । रावणः- (साश्चर्यमात्मगतम्) अहो ! विदेहराजदुहितुर्वैदग्धी । यदियमस्मच्चरित चमत्काररोमाञ्चितहृदयाऽपि दयितस्यातिसन्धानाय विरसमाभाषते । भवतु । ( प्रकाशम् ) समजनि रणरङ्गे यस्य वक्षोऽभिघातैः, दलितरदनदण्डः खः करेणुः करेणुः । १ ) एतेनार्जित माजिना किमधुना वा हीनसेन । २) आश्चर्यम्, दशमुख इति श्रुत्वा वेपति अस्माकं हृदयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy