________________
महाकविश्रीरामचन्द्रसूरिरचितं किन्तु द्रव्यालङ्कारनामा प्रबन्धोऽनभिनेयत्वेन तावदास्ताम् । अपरेपां राघवाभ्युदय-यादवाभ्युदय-नलविलास-रघुविलासानां चतुर्णा रमणीयतमसन्ध्यङ्गनिवेशानां विशदप्रकृतीनां पुनर्मध्ये कुत्र प्रजानामनुरागः ? ।
(नेपथ्ये) प्रजानां प्रथमे, कैकेय्याः पुनर्द्वितीये। सूत्रधारः-( सरोपम् ) कोऽयमावयोरन्तराले प्रलपति ? । चन्द्रकः- कृतममुष्य वातकिनः प्रलापेषु संरम्भेण । प्रस्तुतमभिधीयताम् । सूत्रधारः -प्रजानां रघुविलासनामनि चतुर्थे प्रबन्धेऽनुरागः । चन्द्रक:- रामचन्द्रसूक्तेषु कमसाधारणं गुणं सम्भावयति भावः ? । सूत्रधारःव्युत्पत्तिर्मुखमेव नाटकगुणन्यासे तु किं वर्ण्यते ?,
सौरभ्यप्रसवा नवा भणितिरप्यस्त्येव काचित् कचित् । यं प्राणान् दशरूपकस्य सकरोत्क्षेपं समाचक्षति,
साहित्योपनिषद्विदः स तु रसो रामस्य वाचां परम् ॥ ४॥ अपि च
रामात् पूर्व मधुरा व्यक्तं वाचो वपुष्मतां नाऽऽसन् । कथमन्यथा सुधार्थ ममन्थुर मृतान्धसः सिन्धुम् ? ॥५॥
(नेपथ्ये) अत्यल्पमभिदधासि । नय-विनय-क्रम-विक्रमादयोऽपि महापुरुपगुणा रामात् पूर्वं वपुष्मतां नाऽऽसन् ।
सूत्रधारः - ( सरोपम् ) मारिप! कोऽयं पुनः पुनरम्मानन्तरयति?।
चन्द्रकः- ननु कथितं वातकी कोऽप्येपः । ( पुनर्विमृश्य ) भाव! अमी कृतज्ञविज्ञचूडामणयः सभासदो भवदीयस्य नाट्यकलाकौशलस्य पात्रम्, नापरे । सूत्रधारः-मारिप! हृदयङ्गममभिदधासि । यतः -
उच्चरणलब्धकीर्तराज्ञारहितस्य लक्षणयुतस्य । रामस्य वनं शरणं जितपरकलभस्य शरभस्य ॥ ६॥
(नेपथ्ये) आः क्रूरनटखेट! किमिदं राज्याभिषेकपर्वणि रामस्य वनप्रस्थानमावेदयसि ?।
सूत्रधारः-( विलोक्य ) कथमयं गन्धर्वकभूमिकावाही कुशीलवः पुनः पुनरस्मानन्तरितवान् ? । तदेहि मारिप!, करणीयान्तरमनुतिष्ठामः ।
( इति निष्क्रान्ती) ॥ प्रस्तावना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org