SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ३ रघुविलासनाटकम् -प्रथमोऽङ्कः । (ततः प्रविशति कञ्चुकी गन्धर्वकः । ) गन्धर्वक:- यथा किल मया कोपकडारचक्षुः साक्षेपया मन्थरया दत्तहस्तावलम्बा राजानमुपसर्पन्ती देवी कैकेयी विलोकिता तथा जाने सप्रत्यहो रामस्य राज्याभिषेकः । भवतु तावत् । कौशल्यादेशेन गन्धर्वलोक सङ्गीतकाय प्रवत्तेयामि । कः पुनरस्मिन राज्याभिषेकमङ्गले ऋतुः समुचितो गातुम् ? । ( विमृश्य) हुं ज्ञातम् । वसन्तः । तथा हि ऋतुषु वसन्तः करणेषु लोचनं कामिनी च विषयेषु ।। दयितेषु जीवितव्यं विद्या च कलासु खलु सारम् ॥ ७॥ ( उच्चैःस्वरम् ) हंहो गन्धर्वलोकाः ! स्वयं देवी वः कौशल्या समादिशति - रामचन्द्रराज्याभिषेकपर्वणि वसन्तमधिकृत्य गीयताम् । (नेपथ्ये) अलमलं सङ्गीतकेन । गन्धर्वकः- कथमयं दुर्मुखो व्याहरति ? । (प्रविश्य ) दुर्मुखः-अलमलं सङ्गीतकेन । गन्धर्वकः - ( सरोषम् ) अरे! किमर्थं कौशल्यादेशमन्तरयसि ? । दुर्मुखः-किं मां पृच्छसि ? । गत्वा पृच्छ रघुकुलयशःशशाङ्ककादम्बिनीं देवीं केकयनन्दिनीम् । गन्धर्वकः- ( सभयम् ) विततमावेदय । दुर्मुखः- कौशल्या-सुमित्रयोराकारणाय सुवुद्धिना सत्वरं प्रेषितोऽस्मीति नावसरो विततावेदनस्य । ( इत्यभिधाय निष्फ्रान्तः । ) (ततः प्रविशति सम्भ्रान्ता कौशल्या सुमित्रा च ।) सुमित्रा-तदो तदो। कौशल्या-अणंतरं पत्तकं निख्वयंतो य्येव अजउत्तो मुच्छाए सिंहासणादो निवडिदो। सुमित्रा-( सखेदम् ) हँदा तुमं केगइ! हदा तादिसस्स अजउत्तपसादस्स । एदं ते समुचिदं? । १) ततस्ततः ? । २) अनन्तरं पत्रकं निरूपयन्नेव आर्यपुत्रः मूर्छया सिंहासनात् पतितः। ३) हता त्वं कैकयि ! हता तादृशस्य आर्यपुत्रप्रसादस्य । एतत् ते समुचितम् ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy