SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ महाकविश्रीरामचन्द्रसूरिरचितं रघुविलासनाटकम् । [प्रथमोऽङ्कः] सतीं यः केवलां दृष्टिं हृतामत्युग्रकर्मणा । तीर्खा मोहाब्धिमानैषीद् वीरायास्मै नमो नमः ॥ १॥ (नान्द्यन्ते) सूत्रधारः- ( सप्रमोदम्) सीतां काननतो जहार विहितव्याजः पुरा रावण स्तं व्यापाद्य रणेषु तां पुनरथो रामः समानीतवान् । एतस्मै कविसूक्तिमौक्तिकमणिवात्यम्भसे भूर्भुवः स्वामोहनकार्मणाय सुकथारनाय नित्यं नमः ॥२॥ भवतु तावत् । अहं सामाजिकादेशमनुतिष्ठामि । (इति परिक्रामति । ) (प्रविश्य ) चन्द्रकः-भाव! कथं विस्मयाङ्कुरितरोमाञ्चकोरकदन्तुरो विलोक्यसे? । सूत्रधारः-मारिप! समाजलोकस्य प्रवन्धरामणीयकविशेषपरिज्ञानचातुरीसम्पदा चमत्कृतोऽस्मि । चन्द्रकः- भाव ! समिद्धरसानुबन्धे कुत्र प्रबन्धे समलङ्कृतसम्पदा सभासदां सादरं चेतः । सूत्रधारः-मारिष ! श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासन विधानवेधसः श्रीमदाचार्यहेमचन्द्रस्य शिष्यं रामचन्द्रमभिजानासि? । चन्द्रकः-(साक्षेपम्) पञ्चप्रबन्धमिषपञ्चमुखानकेन विद्वन्मनःसदसि नृत्यति यस्य कीर्तिः। विद्यात्रयीचणमचुम्बितकाव्यतन्द्रं कस्तं न वेद सुकृती किल रामचन्द्रम् ? ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002799
Book TitleRaghuvilasa Natakam
Original Sutra AuthorRamchandra Mahakavi
Author
PublisherBharatiya Vidya Bhavan
Publication Year1982
Total Pages102
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy