SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पद्य २८-४१] दिग्विजयमहाकाव्यम् भवनवलभौ श्राद्धैः पुष्पस्रजोऽवललम्बिरे परिमलमिल गारावैरिव स्तुतिवादिनीः । गणधरगुरौ जाग्रद्ब्रह्माऽऽयुधे समुपेयुषि धनुष इव किं जीवा एताः स्मरस्य विपातुकाः ॥ ३५ ॥ वरयुवतिभिर्द्वारे द्वारे सुमङ्गलकर्मणि ... सपदि वितते स्थाले मुक्ताभृतेऽत्र हिरण्मये । प्रतिकृतिमिषात् तासां नांगाङ्गना इव भूतला___ ललितवपुषः प्राप्ता रेजुर्गणीन्द्रनिनसया ॥ ३६॥ गणिदिनमणिं दर्श दर्श प्रमोदमहोदयाद् __ *विहसितमुखाः पद्मिन्यस्ता व्यधुर्मधुरक्रियाः । नटनमटनप्रादक्षिण्यं स्थिरक्षणवीक्षणं प्रणमति मतिलेहादू गेहादुपेत्य पुरो गुरोः ॥ ३७॥ सपरवशाः काश्चिद् गानं विकखरसुखरैः सरसिजदृशः प्राचामाचारजैर्धवलैय॑धुः। यदनुभवतस्ताम्राक्षीणां स्वरः पिरपुष्टता न्वयपरिगतां गौणी वृत्तिं विनिश्चिनुतेतराम् ॥ ३८ ॥ अरुणवसनैश्छन्ने मार्गे नखांशुभरैरिव । परमगुरवश्चेलुयत्नात् तदा दधतः क्रमौ । उचितमुदये सौरैः पादैर्भुवोऽपि सरागता प्रभवति तमपिछत्त्यै दोषापहारविधौ पटुः॥ ३९॥ परिकलितयाऽरामैः सौम्यैर्महेश्वरलक्ष्मणै ध्रुवपरिणतिप्रौढोच्छ्राये सुधर्मसभाश्रये । गणिपतिगुरुस्थित्यामेवं सुपर्वपुरस्सर__ ममरनगरीसख्यं मुख्यं तया नियतं दधे ॥ ४०॥ फणिपतिसमासीनः शङ्केश्वरः प्रभुरन्तिके ऽस्य जयति परं पार्श्वः श्रीमान् महेन्द्रमनःप्रियः। गुरुपरिचयादिन्द्रोपेन्द्राऽऽगमेऽत्र न विस्मयः स्मैयहृतिपुरे लङ्कापुर्याः प्रभाभरभासुरे ॥ ४१॥ [35] 1 'भवनवलभौ' भवनानि गृहाणि तेषां वलभिः वंश- [38] 10 'रसपरवशाः' कामाधीनाः। 11 'सरसिजदृशः' पतरादिश्छदिष आधारस्तस्मिन् । 2 'भृङ्गाऽऽरावैः' भ्रमरगुजारवैः। कमलाक्ष्यः । 12 'परपुष्टतान्वय' कोकिलवंशः। 3 'जीवा' गुणः। 4 'स्मरस्य' कामदेवस्य । [39] 13 'सौरैः' सूरिसम्बन्धिभिः । 13616 "हिरण्मये' सुवर्णयुक्ते। 6 'नागाशनाः' नागलोक- [40114 'आरामैः' उद्यानैः। 15 लक्ष्मणः' लक्ष्मीवद्भिः। लियः । 7 'ललितवपुषः' कान्तदेहाः । 8 निनंसया' 16 उच्छ्राये' आरोहे। 17 'सुपर्वपुरस्सरम्' पर्युषणादिपर्वपूर्वकं नन्तुमिच्छया। | देवतापूर्वकं वा। [37 ] 9 'गणिदिनमणिम्' गणिषु दिनमणिः सूर्य इव तम्। [41] 18 'स्मयहृतिपुरे' सीरोहीनगरे । * A विहसित दृशः। + B पुर। B°वशनैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy