SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ महोपाध्यायमेघविजयगणिकृतं [पञ्चमः सर्गः प्रियतममभूदू रक्षायोगाद् यदेव हि गोपुरं विशति यतिनामीशे तस्मिन्ननिष्टमिदं तदा। गज-हय-रथे साङ्कर्येणापथे पथकारिणि स्फुरति पुरतः को वा स्वार्थे प्रियो यदि वाप्रियः॥ २८ ॥ वहति महति वैरं लोके पुरो निगमेशिनां मधुरचरितैर्गायं गायं नटन्नटनायकः। रसजननतः खेदेच्छेदं चकार सकारण: सरसवचनाऽऽरम्भः स्तम्भच्छिदे विदुषां न किम् ? ॥ २९ ॥ बहुसुमनसामामोदेनाभवच्छरदागमः कुनयजडताप्रादुर्भावाद्धिमागमसम्भवः । तमसि सुदृशां किश्चिच्छेषः कृतः सुकृतोदयैः सुरभिरभितः श्रीमत्सूरेयशोभिरयं जनः ॥ ३० ॥ व्यसनसरसि ग्रीष्मो भीष्मस्तदा विशदाशयै धनवितरणे हर्षाद् वर्षाऽऽगमः समनीयत । षडपि ऋतवश्चैवं देवं विमृश्य शुभं नृणां किम गुणतां भेजुः सूरेः समागमने पुरे ॥ ३१ ॥ भवनशिरसि व्यारूढानां तदा क्षणवीक्षणे नवमृगदृशां मेषाभावान्मनागपि तदृशाम् । अतिरुचिरताऽऽरम्भादु रम्भा अमूरिति निश्चय. श्चतुरमनसि प्रादुर्जज्ञे सविभ्रमभावनात् ॥ ३२ ॥ प्रतिगृहमुखं तत्र न्यासीकृते मणितोरणे भ्युदितदिनकृद् बिम्बालम्बानुबिम्बनसन्ततिः। द्विगुणसुषमामाविश्चक्रे निरस्ततमास्तमा समवगमने सान्द्रं चान्द्रं रुचां पटलं तथा ॥ ३३ ॥ गुरुरपि विशन्नस्यां वश्यां जगज्जनतां व्यधा दभिनवसुधालिसे कुड्ये पर शतबिम्बितैः। सममिव पुरीलोकं साक्षात् पवित्रयितुं खतः प्रणतममदापूर्णं तूर्णं प्रमोदयिताऽशिषा ॥ ३४॥ 20 [28]1 'गोपुरम्' पुरम्। 2 'साङ्कर्येण' व्याप्तेन । [82 19 'नवमृगदृशाम्' नव्यकमलाक्षीणाम्। 10 'मेषा. [29] 3 'निगमेविनाम्' विबुधमहात्मनाम्। 4 'खेदच्छेदम' | भावात्' रोमशाभावात्। 11 'रम्भाः ' देवस्त्रियः । अध्वश्रमनाशम्। 5 'स्तम्भच्छिदे' स्तम्भो जाज्यं तं छिनत्तीति [33] 12 दिनकृद् दिनकृत् सूर्यः। 13 'द्विगुणसुषमाम्' च्छित् तस्मै । द्विगुणसातिशायिनी शोभाम् । [30] 6 'बहुसुमनसाम्' अतिपुष्पाणाम् । 7 'आमोदेन' [34] 14 'अस्याम्' पुर्य्याम्। 15 'अभिनवसुधालिप्ते' सुगन्धेन। अभिनवा नव्या या सुधा तया लिप्ते 'सुधा चूनो' इति भाषायाम् । [31] 8 'अनुगुणताम्' औचित्यम् । 16 'कुड्ये भित्तौ। 17 'अमदाऽऽपूर्णम्' अमदोऽगर्वस्तेनाऽऽपूर्णम्। Jain Education International For Private & Personal Use Only wwww.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy