SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ४० 5 10 15 20 महोपाध्यायमेघविजयगणिकृतं मुनिनृपतिना स्कन्धावारस्थितिः शरदोर्द्वयं व्यरचि निचिताssचाराणां च क्षितौ स्थितिरक्षता । दिशि दिशि समादिश्य प्रौढक्षमाधननायकान् समुपनयता मोहारातेर्बले शिथिलक्रियाम् ॥ १६ ॥ स्वयमपि गुरुवक्पारुष्यं निरस्य शनैः शनैः नयपरिचयात् कोशं मित्रं समेधयिताऽर्थतः । कचन समयं पश्यन् सन्धि प्रशस्ततया परेध्वनुगुणधिया क्रोधाद्येषु स्फुटं प्रवितेनिवान् ॥ १७ ॥ कमपि विषये मुख्यं कुर्वन्नयं पचारतां कचन वचनाद् गृह्णन् गौणप्रवृत्तिकृताऽऽदरः । कचिदपि महोपायैश्चार्थं सुसूत्रतया श्रयन् प्रवचनमहासाम्राज्यस्य श्रिया विललास सः ॥ १८ ॥ समुदयबलोपेते जाग्रद्गुणे गणिनि प्रभु धित विधितस्तूर्णं धीरश्रियां पदमादरात् । निर्गमनविधेः सद्यः कुर्वन् दैमं प्रतिरोधके शिवमनुपदं तस्माल्लोके प्रियं समभूद् भुवि ॥ १९ ॥ सुकर करण प्रत्याहार क्रियाकुशलः प्रभुः सकलविषयान् बुद्धेर्योोगा जिगीषुरिवाऽऽत्मना । सहृदयजने जाग्रत्तेजस्तपोधनमुन्नय नयहरणात् तस्मिन् देशे समञ्जसमादधे ॥ २० ॥ जिनपतिमथो नन्तुं शङ्केश्वरस्थितमुन्नमत् फँणमणिगणाधीशाऽऽराध्यं ससङ्घतयाऽघः । अनुचलदनोत्री सम्यग् मरुद्रथसङ्कुले sध्वनि धनिवरैः पूज्यः पूज्यश्चचाल तपोगणे ॥ २१ ॥ Jain Education International [१६] १ 'स्कन्धावारस्थितिः' कटकनिवेशः पक्षे स्कन्धा | दीनां चाराणां गूढपुरुषाणाम् । ३ 'स्थितिरक्षता' स्थितियंवारे राजधान्यां स्थितिरवस्थानम् । २ " आचाराणाम्' ज्ञाना वस्था - अक्षता पूर्णा व्यरचि । [16] 1 'शरद' वर्षस्य । 2 'मोहारातेः' मोहः कामदेव एवारातिः शत्रुस्तस्य । [18] 3 'उपचारताम्' गौणम् । 4 'प्रवचनमहासाम्राज्यस्य' प्रवचनमागमस्तत्स्वरूपं महासाम्राज्यं तस्य । [19] 5 'समुदयबलोपेते' समुदयो युद्धं तस्य बलं सैन्यं तेनोपेतं युक्तं तस्मिन् । 6 ‘न्यधित' स्थापितः; निपूर्वकं 'डुधांग धारणे च' इति धातोरयतन्यां “इश्च०" ४-३-३१ इतीत्वे, कित्त्वे "धुट्ह ख०” ४-३-७०, इति सिच् लुपि 'न्यधित' इति रूपं सिद्धम् । 7 'निगमन विधेः' मार्गविधेः । 8 'दमम्' दण्डम् | * P फणफणि। For Private [ पचमः सर्गः 9 'प्रतिरोधके' चोरे । [20] 10 "करणप्रत्याहार" करणानीन्द्रियाणि तेषां प्रत्याहारः विषयेभ्यः समाहृतिः 'प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः' इति हैमः [ अभि• चिं० कां० १० ८३] । 11 'सहृदयजने ' प्रियजने । 12 'अनयहरणात् ' अनीतिहरणात् । 13 'समञ्जसम् ' सम्यक्प्रकारेण ऋजुम् । [21] 14 'अनघः' पवित्रः । 15 'मन्त्री' कम्बलिबाह्यकम् । 16 'मरुद्रथसङ्कुले' देवरथैर्व्याप्तेि । Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy