________________
5
10
15
20
३२
महोपाध्यायमेघ विजयगणिकृतं
[ चतुर्थः सर्गः
विभवफलमभीप्सुर्भव्यलोकः प्रभूणां सदसि सदुपदेशं प्राप्य देवप्रतिष्ठाः । व्यरचयदचिरात् तत्प्रीणनेऽद्यापि देवा न धरणिमवतीर्य खं नरान् दर्शयन्ति ॥ ३२ ॥ प्रवचनकुशलानां रैम्यवात्सल्यकर्मण्यंविरलरसवत्याः प्रोद्भवत्सौरभेण । भुवि hणभृदधीशोsयुन्नमन् मौलिरीस्त भुवनजन हिताय स्यान्न किं पुण्यकार्यम् ॥ ३३ ॥ प्रतिपदमदसीयश्रेयसः प्राज्यरागादनुपमशमभाजामाश्रमानन्वतिष्ठन् । तपगणगुणनिष्ठाः श्रावकाः सप्रतिष्ठा मुनिजनपठनेऽभूत् तेषु घोषोऽपि नान्याः ॥ ३४ ॥ सविनयमिदमीयाऽऽदेशमासाद्य सद्यस्संमयनयविदोऽत्र प्रौढगीतार्थ पार्थाः । दिशि दिशि विचरन्तश्चारुचारित्रबोधं विदधुरंधुतलज्जा जैनधर्मेऽतिसज्जाः " ॥ ३५ ॥ कुमतरैतविनाशाद् बोधिहेतुप्रकाशाज्जिन भवनविधानाद् योगिनां संनिधानात् । अतनुत सैंनिसर्ग श्रावकः पुण्यसर्ग विजितदुरितवर्ग" मोहवृत्तेर्विसर्गम् ॥ ३६ ॥ मरुधरणि-सुराष्ट्रा- गूर्जरत्रादिदेशेष्वभयमथ विहृत्य स्तुत्यसत्कृत्य लाभात् । विषयगणललाटे मेदपाटे जगाम मुनिपतिरतिशायी तेजसा तीव्रधान्नः ॥ ३७ ॥ नरपतिरपि तत्र श्रीजगतत्सिह्नामा गुरुचरणपयोजे योजयँश्चावनामम् । वचसि रसिकवृत्त्या जीवरक्षां प्रपेदेऽनिमिषवधनिषेधस्तेन जज्ञे सैंरस्योः ॥ ३८ ॥ पॅरिपतित जिनौकांस्युद्धरन शुद्धबुद्धिः खमपि नरकपातादुद्दधार क्षितीशः । गुरुरपि सुनिवेशे सर्वदेशे चकाराविरतिविरतिमद्भिस्तीर्थयात्राः सहैव ॥ ३९ ॥ पुनरपि समियाय श्राद्धवर्ग पुपूषुः सपदमहमदाद्यं वादमत्यादरेण । युगपरिमितमासान् जातपुण्यप्रकाशान् स्थिरतरचरणस्थस्तस्थिवानुत्सवेन ॥ ४० ॥ गुरुतरगणभारं भूरिचिन्तावतारं निजबलमसहायं ध्यानधारान्तरायम् । उचितगुणनिकायं चिन्तयन्नञ्जसा यं सपदि विजयसिंहं यौवराज्ये न्यधन्त ॥ ४१ ॥
[32] 1 'तत्प्रीणने' विजयदेवसूरिं प्रीणयितुम् । 2 'धरणिम्' पृथ्वीम्, धरणिशब्दः हस्खो दीर्घोऽपि । 'अवन्यवनि - धरणी धरणिर्धरिया धरा' इति साधुसुन्दरः [ शब्दरत्नाकरे कां० ४ श्लो० ३]
[33] 3 'रम्यवात्सत्यकर्मणि' मनोहरसाधर्मिक वात्सल्यकार्ये । 4 ‘अविरलरसवत्याः' निरन्तरपाकस्थानस्य । 'सुदशाला रसवती पाकस्थानं महानसम्' इति हैमः [ अभि० चिं० कां० ४ ० ६४] 5 ‘फणभृदधीशः ' सर्पराजः वासुकिर्वा । 6 ' आस्त' उपविष्टः । 'आसिक उपवेशने' इति धातोः ह्यस्तन्यां रूपम् ।
[34] 7 'प्राज्यरागाद्' गाढस्नेहात् । 8 'घोषोऽपि नान्याः ' नन्दिघोषः बन्दिघोषः ।
[35] 9 'समय नयविदः' समयः सिद्धान्तः नयः नीतिस्तयो विंदः वेत्तारः । 10 'अधुतलज्जाः' अधुता अचलिता लज्जा व्रीडा येषां ते । 11 'अतिसज्जाः' अतिसंनद्धाः ।
Jain Education International
For Private
[36] 12 °रत” रतं मोहनम् । 13 'सनिसर्गम्' सदानम् । 14 'विजित दुरित वर्गम्' विजितं दुरितानां पापानां वर्ग समूहं येन तम् ।
[38] 15 'अनिमिषवधनिषेधः' अनिमिषा मत्स्यास्तेषां वधनिषेधः हिंसाप्रतिषेधः । 16 'सरस्योः ' उदयसागर - पीछोलाsऽख्यतडागयोः ।
[39] 17 ' परिपतितजि नौकांसि' खण्डितजिनमन्दिराणि । 18 'खमपि' आत्मानमपि ।
[40] 19 'पुपूषुः परीतुमिच्छुः 'पूश् पालनपूरणयोः' इति धातोः सन्नन्तत्वाड्डप्रत्ययः । 20 'युग' युगाश्चत्वारः, चातुर्मासि कम् | 21 'स्थिरतरचरणस्थः ' स्थिरतरमतिशयेन दृढं चरणं चारित्रं तस्मिन् तिष्ठतीति ।
।
[41] (६१) 'विजयसिंहम्' 'श्रीविजदेवसूरिपट्टे एकषष्टितमः श्री विजयसिंह सूरिरभवत् ।
Personal Use Only
www.jainelibrary.org