________________
पद्य १५-३१]
" दिग्विजयमहाकाव्यम्
5
तदनु विजयसेनः सूरिराजस्य पट्टे दिनकरकरणिः खर्नाथपूज्यो बभासे । अकबरनरचक्री यस्य चक्रे प्रशंसां सदसि विजयमस्य प्रेक्ष्य विप्रौघवादे ॥ २३ ॥ सुरपतिमिव साक्षान्नव्य दिव्यर्द्धि भाजमकबरनरराजं बोधयन् साऽवरोधम् । गणिगणमणिहीरः पूर्वदेशे विहारात् स विजयमुपलेभे मोहमुच्छिद्य सद्यः ॥ २४ ॥ गुरुरिव गुरुशिष्यः स्यादितीवोत्तरस्यामंकचरन रशक्राभ्यर्चितो लाभपुर्याम् । उपनतविजयश्रीर्मोह सर्वस्वभङ्गात् स गुरुविजयसेनो गीयतेऽद्यापि भूम्याम् ॥ २५ ॥ इति जिनवर पट्टश्रेणिमालाप्रसूनैर्मुनिपतिभिरकारि * स्फारविद्याद्यन्नैः । स्वसमयमनुजीच्या प्रौढमोहप्रघातात् कति कतिचन वारान् दिग्जयो जैनराज्ये ॥ २६ ॥ बहुगुणबल शक्तिप्राप्युपायोदिताऽऽशाविजय इह कवीन्द्रैर्विस्तरात् कैर्निगद्यः । यतिपतिमतिलभ्यः सभ्यतुष्ट्यै समासात् कथमपि कथयामस्तं तथापि प्रशस्तम् ॥ २७ ॥ 10 तदनु तदनुभावादेव देववरूपी
विजयिविजयदेवः श्रीगणेन्दुर्बभूव ।
किमुत ! विजयदेवच्छ्द्मनाऽस्यावतीर्णो
भरतभुवि जिनानां भक्तये व्यक्तयुक्तया ॥ २८ ॥
15
प्रवचनमुपदिश्योद्दिश्य भव्याङ्गभाजः प्रतिर्विषयविहारैर्धर्मकर्मप्रवृत्तिम् । कुनयमपनयन् यस्तेनिवस्तेिन मुक्तेः पथि पथिकजनानां सार्थनाथायते स्म ॥ २९ ॥ भजति जिनमतस्य प्राज्यसाम्राज्यमस्मिन् रजति सुकृतिलोकश्चैत्यनित्यार्चनासु । अमलकमलजाग्रद् भूरिसौरभ्यलुभ्यद्भ मररवमिषाद् दिग् गायतीवास्य कीर्त्तिम् ॥ ३० ॥ अभिनवभवद र्हच्चैत्यमूर्द्धध्वजौघैः परमगुरुगरीयः कीर्त्तिवाला ननर्त्त । अभिनयमिव तस्याः प्रेक्ष्य रेम्भाऽप्यदम्भाद् "विकिरति कुसुमानि स्फारतारामिषेण ॥ ३१ ॥ २०
[23] (५९) 'विजयसेनः सूरिराट्' श्रीहीरविजयसूरिपट्टे एकोनषष्टितमः श्री विजयसेन सूरिः संजज्ञे ।
1 'विप्रोधवादे' पञ्चशतविप्रैः सह वादं कुर्वाणे ।
[ 24 ] 2 ‘सावरोधम्' अन्तःपुरसहितम् 'शुद्धान्तः स्यादन्तःपुरमवरोधोऽवरोधनम्' इति हैमः [ अभि० चिं० कां० ३ श्लो० ३९१]
[25] 3 'अकबरनरशक्राभ्यर्चितः' अकबरो नृपतिः नरेषु शक इन्द्र इवेति अकबरनर शक्रस्तेनाभ्यर्चितः पूज्यः । 4 'लाभपुर्याम्' देहलीति नगर्य्याम् । 5 'उपनतविजयश्रीः' उपनता प्राप्ता विजयश्रीलक्ष्मीर्यस्य सः ।
[26] 6 णिमालाप्रसूनै:' श्रेणि: पङ्क्तिरेव माला तस्याः प्रसूनैः पुष्पैः । 7 ‘स्फारविद्याद्यनूनैः' स्फारा विपुला या विद्या साssदौ यस्य स स्फार विद्याद्यस्तेनानृनैः ।
[ 27 ] 8 ‘यतिपतिमतिलभ्यः' यतीनां पतयस्तेषां मतिभिर्लभ्यः
प्राप्यः ।
* P स्फारि ।
Jain Education International
f P दीप्य ।
३१
[28] (६०) 'विजयदेवः ' श्री विजयसे नसूरिपट्टे षष्टितमः श्री विजयदेवसूरिः संबभूव ।
देशः । 11 'तेनिवान्' विस्तारं कृतवान् । 'तनूयी विस्तारे' इति [ 29 ] 9 'भव्याङ्गभाजः ' भव्यप्राणिनः । 10 " विषय " विषयो धातोः शतृप्रत्ययाद् रूपम् । 12 'सार्थ नाथायते' सार्थनाथः वृन्दखामीवाऽऽचरतीति सार्थनाथायते । 'सार्थो वृन्दे वणिग्गणे' इति हैमः [ अने० सं० कां० २ श्लो० २२५]
[31] 13 'परमगुरुगरीयः कीर्तिबाला' परमश्चासौ गुरुश्चेति परमगुरुस्तस्य गरीयसी कीर्तिः सैव बाला । 14 'अभिनयम्' व्यजकम् ‘व्यञ्जकोऽभिनयः समौ' इति हैमः [ अभि• चिं० कां लो १९६] 15 'रम्भा' सुरपत्नी 'रम्भा त्रिदशभामिन्यां कदल्यां च ' इति हैमः [ अने० सं० कां० २ श्लो० ३१५] 16 'विकिरति' क्षिष्यति 'कॄ विक्षेपे' इति धातोः रूपम् | 17 'स्फारतारामिषेण ' स्फाराः विकसिताः यास्तारास्तारकास्तासां मिषेण व्याजेनेत्यर्थः ।
For Private Personal Use Only
www.jainelibrary.org