________________
5
10
15
महोपाध्यायमेघविजयगणिकृतं
तृतीयः सर्गः ।
श्रीवर्द्धमान भगवानुदियाय साक्षाद् विश्वोपकारकरणे करणे नियोगी । प्राच्यार्हतां समुदितैर्मुदितैर्महोभिर्यो जातरूप इव निर्जितजातरूपः ॥ १ ॥ उन्निद्रभक्तिभिरुपेन्द्रयुतैर्महेन्द्रैः सर्वैः सुपर्वकृतपर्वणि पर्वतेशे । क्षीराम्बुधेर्मधुरवारिभिरभ्यषेचि मेरो जिनः प्रसवजातमहोत्सवाहे ॥ २ ॥ 'लोकेश - केशव - महेश- सुरेशमुख्यैः शिष्यैरिवाप्तविनयैरभिनूयमानः । सांचीकृताननशचीजनपीयमानस्नात्रेण तेन विधिना भगवान् स रेजे ॥ ३ ॥ वादित्रचित्ररववैभवपूर्णलोकं 'लोकम्पूणं तदन्नृणं सँघृणं जनानाम् । दिष्ट्यादिनं सकलजन्तुहितं बभूव भूवल्लभस्य बहुदुर्लभपुत्रसूत्या ॥ ४ ॥ सिद्धार्थ पार्थिवकुलाम्बरभानुमाली ज्ञातान्ववायजलधौ कैलधौतवर्णः । चन्द्रायते स्म महसामतिशायिवृत्त्या धुन्वन् द्विधापि रिपुचक्रमनुक्रमेण ॥ ५ ॥ क्रीडारसेन विलसन् विलसत्स्वरूपं वैतील भावमनुनीय सुरेण देवः । नासितोsपि न मनाग भयमाससाद तेनाभवद् विभवसम्भविवीरनामा ॥ ६ ॥ बाल्यं व्यतीत्य वयसा जयशालिरूपं बिभ्रन्मैंनो भवनवस्मयहारि हारि । द्वेधापि दारपरिकर्मपराङ्मुखोऽपि चक्रे कैंरग्रहमहं खजनानुवृत्त्या ॥ ७ ॥ मत्वा विषेन तुलितान् विषयान सारानारादपारभवदुःखपरम्परायाः । दीक्षां जिघृक्षुरपि मल सुरैर्न्यबोधि लोकान्तिकैर्जयजयारवमीरयद्भिः ॥ ८ ॥ सांवत्सरं वितरणं तरणं भवान्धेर्दत्वाऽऽददे विरमणं रमणं शिवान्तः । त्यक्त्वाऽऽवान् स भगवान् विजहार भूम्यां सम्यक् तृणे मणिगणे समतां दधानः ॥ ९ ॥
२०
[१] १ 'करणे' अधिकाराssस्पदे ।
[1] 1 'उदियाय' आविर्बभूव । "प्रभोः वीरस्य जन्म विक्रमार्कात् पूर्वं चतुःशतसप्ततितमे [ ४७० ] वर्षेऽभूदिति विद्वज्जनसम्म - तम् । 2 ‘नियोगी' कर्मसचिवः । " नियोगी कर्मसचिव आयुक्तो व्यापृतश्च सः” इति हैमः [ अभि० चिं० कां० ३ श्लो० ३८३] । 3 'प्राच्यार्हताम्' पूर्व तीर्थकृतां ऋषभादिपार्श्व पर्यन्तानाम्। 4 'समुदितैः” समुत्पन्नैः । 5 ‘जातरूपः' जातं रूपमस्य जातरूपमकृतस्वरूपं सुद्रीदेशजं सुवर्णं वीरस्य सुवर्णवर्णत्वात् । 6 'निर्जितजातरूप:' पराजितः कामदेवो येन सः ।
[2] 7 'उन्निद्रभक्तिभिः' जागरूक सेवाभिः ' 8 'सुपर्वकृतपर्वणि' देवकृतपर्वणि । 9 'पर्वतेशे' श्रेष्ठपर्वते मेरावित्यर्थः । 10 'प्रसवजातमहोत्सवाद्दे' जन्मकृतमहोत्सव दिवसे ।
[3] 11 'लोकेश केशव महेश सुरेशमुख्यैः' लोकेशः राजा, केशवः कृष्णः, महेश: महादेवः, सुरेशः इन्द्रः- तेषां मुख्यैः प्रधानैः । 12 'साचीकृतानन०' तियक्कृतं मुखं येन । 'तिर्यगर्थे तिरः साचि" इति हैमः [अभि० चिं० कां० ६ श्लो० १७० यथा - "साचि लोचनयुगं रमयन्ती" ।
]
Jain Education International
[ तृतीयः सर्गः
[4] 13 'लोकम्पृणम्' लोकान् प्रीणाति, आनन्दयतीति तम् । 14 'सघृणम्' करुणायुक्तम् । 15 'दिष्ट्या' सम्मदेन । 'दिष्ट्या सम्मदे' इति हैमः [ अभि० चिं० कां० ६ श्लो० १६४]
[5] 16 'सिद्धार्थपार्थिव ० ' सिद्धार्थनामा नृपः वीरस्य पिता । 17 'ज्ञातान्ववायजलधौ' ज्ञातनामकवंशसमुद्रे 'वंशोऽन्वयोऽन्ववायः' इति धनञ्जयः [ श्लो० १२५]। 18 'कलधौतवर्णः' सुवर्णवर्णः 'तपनीयं कलधौतम्' इति धनञ्जयः [ श्वो० १४] । 19 'चन्द्रायते' चन्द्रमिवाचरतीति ।
[6] 20 'वैतालभावम्' वैतालिकस्वरूपं उच्चैः तालवृक्षमिव स्वरूपं । 21 'अनुनीय' कृत्वा । 22 'संत्रासितः ' भापयमानः ।
[7] 23 मनोभवनवस्मयहारि' कामदेवस्य नवीनो यः स्मयस्तं हरत इति । 24 'दारपरिकर्म" पत्नीपरिग्रहः । 25 'करप्रमहम्' विवाहोत्सवम् ।
[8] 26 'ईरयद्भिः ' कुर्वद्भिः ।
[9] 27 'वितरणम्' दानम् । 28 'विरमणम्' हिंसादि-पथकषायेभ्यः विरमणं विरतिः । 29 'आश्रवान्' आस्रवन्ति कर्माणि | यैः द्विचत्वारिंशत्प्रकारैः तान् ।
For Private Personal Use Only
www.jainelibrary.org