SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १९ पद्य ३८-५६] दिग्विजयमहाकाव्यम् । वितीर्यमाणे किल बोधिदाने जिनेन तुर्याण्यभिनेदुरुच्चैः । तत्राभवत् किं सुमनोऽभिवृष्टिः प्रसृत्वरैर्दन्तरुचां प्रचारैः ॥ ४९॥ जिनस्य दिव्यध्वनिनोऽर्जितेन ज्ञानार्णवः पूर्णतया जगञ्ज । पीयूषमाविर्भवति स्म तस्माद् द्विजन्मराजीरुचिकैतवेन ॥५०॥ अस्पष्टवर्णत्वमुशन्ति चान्ये जिनेन्द्रवाचस्तदिदं विनेतुम् । वर्णा रदांशूज्ज्वलवर्णवेषमाधाय वक्त्राम्बुरुहानिरीयुः॥५१॥ शब्दे गुणत्वं ह्यपरे दिशन्ति तदप्रमाणं द्विजकान्तिदम्भात् । यन्निःसरन्नेव जिनस्य शब्दः प्रोज़म्भतेऽत्युज्ज्वलवर्ण एव ॥५२॥ सुरासुराद्यान् प्रतिबोधयन् स क्षमापीठपावित्र्यविधित्सयैव । मिथ्यामतध्वान्तमपास्य सर्व भावानिवोचैर्विजहार लोके ॥ ५३॥ विहृत्य चैकं किल पूर्वलक्षं धर्म स्थिरीकृत्य सभासमक्षम् । कैलासशैलेऽनशनेन मोक्षं स प्राप्य भेजे तदनन्तसौख्यम् ॥५४॥ श्रीचक्रवर्ती भरताभिधानस्तदङ्गजन्मा महसा प्रधानः। वभूविवान् दिग्विजयी नयीशस्तदाख्यया वर्षमिदं सहर्षम् ॥ ५५ ॥ क्रमेण तुर्याऽऽरकसंप्रवृत्तौ जज्ञे चतुर्विंशतिरहतां सा। यस्याः स्मृतेानविधानतो वा जागर्ति लोकस्य महोदयश्रीः ॥५६॥ इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते श्रीभरतवर्णनो नाम द्वितीयः सर्गः ॥ __10 15 149] 1 'वितीर्यमाणे' ददति। 2 'बोधिदाने' सम्यग्द. [52] 13 'शब्दे गुणवम्' 'शब्दगुणमाकाशम्' इति नैयार्शनप्रदाने। 3 'तुर्याणि' वाजिन्त्राणि । “दुन्दुभिनाद उचैर्भुवनव्यापी यिका मन्वते। 14 'यन्निःसरन्' यस्मात् मुखानिःसरन् बहिर्गस्यादिति तीर्थकराणामतिशयविशेषः"। 4 'सुमनोऽभिवृष्टिः' पुष्पाणां च्छन् । 15 'प्रोज़म्भते' प्रकाशते। वर्षा । "बहुवर्णपुष्पवृष्टिरपि तीर्थकराणामतिशयविशेषः"। 153] 16 'प्रतिबोधयन्' उपदिशन् । 17 'क्ष्मापीठपावित्र्य. [50] 5 'दिव्यध्वनिनः' पञ्चत्रिंशद्वाचां गुणैर्युक्तस्य शब्दस्य । विधित्सया' पृथ्वीतलस्य पवित्रतां विधातुमिच्छया। 18 मिथ्या6 'अर्जितेन' उत्पादितेन। 7 'ज्ञानार्णवः' ज्ञानसमुद्रः । “अनेन मतध्वान्तम्' मिथ्यादृष्टीनां मतरूपमन्धकारम्। 19 'अपास्य' प्रभोः ज्ञानातिशयो व्यज्यते”। 8 'पीयूषम्' अमृतम्। 9 निराकृत्य। 'आविर्भवति' उद्भवति । 10 'द्विजन्मराजीरुचिकैतवेन' दन्तसमूहकिरणव्याजेन । [55 ] 20 'तदङ्गजन्मा' तस्य ऋषभदेवस्य पुत्रः । 21 [51] 11 'उशन्ति' इच्छन्ति 'वशक् कान्तौ' इति धातोः । 'नयीशः' न्यायकर्तणां खामी। वर्तमानकालस्य "वशेरयलि" ४-१-८३ इति सिद्धहेमसूत्रेण वृति [56] 22 'तुर्याऽऽरक-संप्रवृत्ती' चतुर्थाऽऽरकाऽऽरम्भे । रूपम् । 12 'विनेतुम्' देष्टुम् । | 23 'सा' महोदयश्रीः । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy