SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ पद्य १५-३२] दिग्विजयमहाकाव्यम् गतवति रथे भानोस्तस्मिन् क्षणे विशरारुतां स्खलनकरणाद् वारुण्याशाधिपानवशाद गिरौ । समचितमतो लोके जज्ञे रथाङ्गविघट्टनं कलकलरवस्तद्दुःखेनाऽऽकुले नु वयःकुले ॥ २५ ॥ सपदि विरहभ्रान्त्या स्त्रीभिः समं तरुमाश्रिते द्विजवरगणे तत्स्पर्शोत्थाद् रसान्मिलितेक्षणे । द्विजपतिरपि छायान् पायान्मदारुणदीधितिः स्मरपरवशो दिगनारीषु ध्रुवं करमक्षिपत् ॥ २६ ॥ स्मरविलसितं राजन्येवं विमृश्य रसादिव समयचतुराः कामिन्योऽपि प्रियाऽऽलयमाययुः। प्रकटितरसाऽऽश्लेषं वेषं विधाय मनोभुवो भुवनवलये राज्यस्यैकातपत्रबलोदयात् ॥ २७ ॥ उपहितमिव द्वन्द्वाधानं विचिन्त्य मनस्विना ध्रियत हृदये प्रोत्साहश्रीस्तदा सुरताशये । करसरसिजप्राप्तां रम्भामिवाम्बुजलोचनां समुदितरसोल्लासात् सद्योऽनुकूलयितुं धिया ॥ २८ ॥ मतिमनुनयन्नूनं प्राणप्रिया चरणाग्रहे। सरसवचनोद्गारं धीरः पिबन्नधरामृतम् । हृदयनिहितं मानं चूर्णीचकार स कञ्चके दृढतरकरक्षेपाद भूमीपरिग्रहमण्डले ॥ २९ ॥ ललितवपुषैकान्ते कान्ते खकाननचुम्बिनि पुलककलिकोन्मेषाऽऽश्लेषादिवैक्यमुपेयुषी। स्मरशरभरोद्भेदान्मूर्छाश्लथावयवा निशि चतुररमणी कस्यावश्यं न वश्यमधान्मनः? ॥ ३०॥ चिरविरहजं दुःखं प्रत्यादिदेश निदेशकृद् विविधवचनन्यासैहासर्विलासकरः प्रियः। सपदि हृदये तन्वावेष्टुं वधूरवधूतभी स्तत इव लघुर्लग्ना कण्ठे चिरं बुभुजेऽमुना ॥ ३१ ॥ कुसुमशयनादुचैर्नीत्वा धृता भुजयोयुगे मुदमुदवहद् भार्या विश्वामियरवलालिता। प्रणयविवशा भूषामाल्यादिके विगलत्यपि __ न हि गणयति त्यागी रागी कदापि वसुव्ययम् ॥ ३२ ॥ 1 P"* रत"। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy