________________
पद्य १५-३२]
दिग्विजयमहाकाव्यम् गतवति रथे भानोस्तस्मिन् क्षणे विशरारुतां
स्खलनकरणाद् वारुण्याशाधिपानवशाद गिरौ । समचितमतो लोके जज्ञे रथाङ्गविघट्टनं
कलकलरवस्तद्दुःखेनाऽऽकुले नु वयःकुले ॥ २५ ॥ सपदि विरहभ्रान्त्या स्त्रीभिः समं तरुमाश्रिते
द्विजवरगणे तत्स्पर्शोत्थाद् रसान्मिलितेक्षणे । द्विजपतिरपि छायान् पायान्मदारुणदीधितिः
स्मरपरवशो दिगनारीषु ध्रुवं करमक्षिपत् ॥ २६ ॥ स्मरविलसितं राजन्येवं विमृश्य रसादिव
समयचतुराः कामिन्योऽपि प्रियाऽऽलयमाययुः। प्रकटितरसाऽऽश्लेषं वेषं विधाय मनोभुवो
भुवनवलये राज्यस्यैकातपत्रबलोदयात् ॥ २७ ॥ उपहितमिव द्वन्द्वाधानं विचिन्त्य मनस्विना
ध्रियत हृदये प्रोत्साहश्रीस्तदा सुरताशये । करसरसिजप्राप्तां रम्भामिवाम्बुजलोचनां
समुदितरसोल्लासात् सद्योऽनुकूलयितुं धिया ॥ २८ ॥ मतिमनुनयन्नूनं प्राणप्रिया चरणाग्रहे।
सरसवचनोद्गारं धीरः पिबन्नधरामृतम् । हृदयनिहितं मानं चूर्णीचकार स कञ्चके
दृढतरकरक्षेपाद भूमीपरिग्रहमण्डले ॥ २९ ॥ ललितवपुषैकान्ते कान्ते खकाननचुम्बिनि
पुलककलिकोन्मेषाऽऽश्लेषादिवैक्यमुपेयुषी। स्मरशरभरोद्भेदान्मूर्छाश्लथावयवा निशि
चतुररमणी कस्यावश्यं न वश्यमधान्मनः? ॥ ३०॥ चिरविरहजं दुःखं प्रत्यादिदेश निदेशकृद्
विविधवचनन्यासैहासर्विलासकरः प्रियः। सपदि हृदये तन्वावेष्टुं वधूरवधूतभी
स्तत इव लघुर्लग्ना कण्ठे चिरं बुभुजेऽमुना ॥ ३१ ॥ कुसुमशयनादुचैर्नीत्वा धृता भुजयोयुगे
मुदमुदवहद् भार्या विश्वामियरवलालिता। प्रणयविवशा भूषामाल्यादिके विगलत्यपि
__ न हि गणयति त्यागी रागी कदापि वसुव्ययम् ॥ ३२ ॥ 1 P"* रत"।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org