SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ दिग्विजयमहाकाव्यम् कतिपयदिनस्थित्याऽऽदेशप्रभुः सुमनःप्रियः क्षणकरणतः सर्वानीतिं व्युदस्य सदस्यतः । जिनमतमतः शिक्षाकल्पादिनाद्भुतमुन्नयन् विनयिनयनाऽऽनन्दी बन्दीडितः शुशुभेतमाम् ॥ ९ ॥ [ इति आगरानगर विजयवर्णनम् ] मधु मधुरिमप्रागल्भ्येन भ्रमद्भिरलिव्रजै विजयसमय प्रज्ञप्त्येवाभिनीतजयाऽऽरवैः । स विभुरचलन्नुन्नः पुर्या जयश्रियमुद्वहन् विविधनिनदद्वाद्यैः सद्यः समं कृतमङ्गलः ॥ १० ॥ अवसरवशात् प्राप्तं सौरं महः समहामह महमहमिकावेशादेशादिवैक्ष्य रवेः सुता । चपलकलिकाहस्तैः शीर्षे विवोदुमिवोल्लसद् वहनमुचितं तस्यादेशप्रभोः पुरतो ददौ ॥ ११ ॥ पुरजनवधूनानैः पानैः परोपकृतौ पटोः कथमिव गतिर्नीचैर्नूनं ममेति पुरो गुरोः । तरणितनया प्रष्टुं पादप्रसादमवाप्य किं नमनमनसा भक्तेस्तवोल्ललास विलासिनी ॥ १२ ॥ जडपरिचयाज्जाग्रत्तेजोनिधेर्दुहितुर्मम द्विजजनघनस्नानोद्भूतान्मलादिव कालिमा । भवतु सहसा पूरे दूरे क्रमाम्बुजसंगमा दिति रसभराद् वीची हस्तैर्ननर्त्त पुरोऽस्य सा ॥ १३ ॥ हरिरिह पुरा गम्यां रम्यां चिरं चकमे रसादू विषयविवशस्तद्देहस्य द्युतिः स्तुतिभाजनम् । तर बहुप्रीत्याद्यापि व्यमोचि न साऽनया तदयमुदयत्यन्तरं परं नवनीलिमा ॥ १४ ॥ मुरपुररिपू कामं कामोदयेन सरिद्वरा मभिललषतुस्ताभ्यां रेमेऽनयांऽहिशिरःस्थया । उपपतिसदृग् वेषाद् द्वेधाऽभिसारिकया ततो द्वितयमभवत् कालन्द्येकाऽपरा हरशेखरा ॥ १५ ॥ गुणपरिणता वेणी वैणीदृशो वसुधाकृते स्तपनतनया हंसोत्तंसप्रसून विदभिता । रमणविषयप्रावीण्यं किं न दीपयति स्म सा पुलिनजघनद्वैतं वेगक्रमात् स्पृशती सती ॥ १६ ॥ पद्य १-१६ ] दि० म० १४ Jain Education International For Private Personal Use Only १०५ 5 10 15 20 25 63 www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy