SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०४ महोपाध्यायमेघविजयगणिकृतं [एकादशः सर्गः एकादशः सर्गः। अथ जिनपथं तथ्यैः पथ्यैर्वचोभिरिहोन्नयन् ___ कथमपि नृणां मिथ्यामोहं विमथ्य समर्थधीः। सपदि सुदृशां द्वेधा चक्रे महोदयसाधन मयमतिशये सौरस्फारप्रभावविभावसोः॥१॥ असमतमसां नाशादाशाम्बरस्थितिरुज्झिता __ ग्रहकरगणैः पद्मिन्योऽपि प्रबोधसुधामधुः। सदसि रसिकश्चक्रे वक्रेतरः समयक्रियां रुचितमुचितं विश्वस्यान्तःसितच्छदमण्डलम् ॥२॥ भणितमभवद् व्याहारस्य प्रियं त्रिजगत्प्रभोः सहृदयजनोन्निद्रीभावः सुमागधभाषया । भवपरिणतान्नाट्यप्राकट्यतः स्वत एव सा जगति जनता वृत्तिं मत्वा विरागदशामगात् ॥ ३ ॥ ललितगतयो मुक्ता स्थाणुं घना भवनाङ्गणे प्रययुरमलां पातुं तीर्धेश्वरेरितगोसुधाम् । प्रकटितमहाकर्षात् तर्षाद् युता वरसौर भै स्तपसि महिषीरूपा नार्यः प्रपीनपयोधराः॥४॥ ध्रवमुपनते श्रित्वा मार्ग कलाधरमण्डले दिशमवसरज्ञानां मुख्ये परं जनवल्लभाम् । अनियततमां मत्वा तत्त्वाद् वसुप्रभुतां जना इह सुमनसः सर्वे दानोद्यता द्यतिमूहिरे ॥५॥ उदयिनि गवां भारे स्फारे प्रभाकरसूचिते भुवनवलये मार्गामार्गप्रकाशमुपेयुषि । सुकृतपटुतां सभ्या लभ्यां गुरोः परिचर्यया समयनिपुणाः कारंकारं गुणाऽऽश्रयतां ययुः ॥ ६ ॥ मनसिजरसं सर्व मत्याऽधमत्य दृढव्रता मनसिजरसं भव्या विश्वेऽनुभाव्य सदाऽनुगाम् । कमलसदृशां चेतोवृत्तिं विधाय विबोधिनीम् कमलसदृशां सङ्गं मुक्त्वा न धर्ममशिश्रियन् ॥ ७॥ धरणिवलये सौरज्योतिर्भरैदृढरागता भृशमुदयिनी जज्ञे प्राज्ञे ततो जिनपूजने । विषममगमच्छोषं दोषाकरस्य विजृम्भितं निबिडजडताहेतुर्मारिप्रचारनिवारणात् ॥ ८॥ 25 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy