________________
पद्य ३४-६५]
दिग्विजयमहाकाव्यम् वाससां वचन शुक्लतमानां तेजसा सुरधुनीव पुनीते । दर्शनोत्सुकनृणां नयनानि सोल्लसत्तुरगतुङ्गतरङ्गा ॥५०॥ व्यक्तरक्तवसनास्तरणेन शोणतामधिगता कचनेयम् । वाहिनीं नु विधिना जनितां सा जेतुमुद्यततया ध्वनिमाधात् ॥५१॥ आपतद् गजघटाऽऽकुलभावाद राशिभिर्मंगमदस्य तथोचैः। कापि सूर्यदुहितुद्युतिगर्व सङ्कुलः सकलमप्यपजहे ॥५२॥ साधयन्तु चतुरः पुरुषार्थानत्र चित्ररुचयश्चतुरेभाः। सर्वतोमुखतया विपणीनां श्रेणयो बभुरितीव चतस्रः॥५३॥ दूरतः प्रययुरापणराज्या आकृतिद्युतिभरैरनया द्राक् । निर्जिता इव हरिनृपतीनां लज्जया कचन राजनगर्यः ॥ ५४॥ आभिमख्यजनितप्रतिविम्बाद रत्नभूमिषु पदार्थगणस्य । क्रायको भ्रमवशादितरस्मिन्नापणेऽत्र गमनेऽपि फलाव्यः॥५५॥ खर्णरूप्यमयपुञ्जितमुद्राव्याजतः किमिह राजसवित्रोः। रश्मयः सततविस्मयवृत्त्या सुस्थिता रुरुचिरे चिरमस्याम् ॥५६॥ सङ्कुलेऽतिविपुलेऽपि जनौघात् सङ्कुले किल मिथः परिमर्दात् । भूषणात् प्रपतयालुमणीनां वृष्टिरेव निकरैर्निरधारि ॥ ५७॥ भूभुजामपि भुजार्जितवित्तैर्विस्मयाय वणिजो विपणिस्थाः। रेजिरे पुरि वरीतुमिवाप्तास्ते स्वयंवररमाः परमार्थात् ॥ ५८ ॥ श्रेणयः किमु परस्परशोभादर्शवन्मणिमया विपणीनाम् । तुल्यरूपविभवाद् भ्रमहेतुग्राम्यविभ्रमवतीषु बभूवुः॥ ५९॥ विस्तृता इव भुजाः पुरलक्ष्म्याः सर्वतोमुखतया जनरथ्याः । यत्र तत्र निदिशन्ति विमध्यं नागरं विविधवास्तववृत्त्या ॥६॥ दक्षिणादिशि दशास्यपुरीयं सुप्रभाऽपि नगरोत्तरदेशे। पूर्वतः स्फुरति पर्वतभेत्तुर्वारुणं पुरमिहापरभागे ॥ ६१ ॥ वर्णितं न कविना भविना वा केन नाश्रितमिदं पुररत्नम् । एवमाह सकलास्वपि दिक्षु विस्तरनिह चतुष्पथघोषः॥ ६२॥
- [इति श्रीजिहांनावादनगरचतुष्पथवर्णनम् ] यत्र चित्रकृतचित्रपवित्रराजसौधधवलद्युतिवृन्दैः। निर्मलीकृतपयास्तनयार्कस्योन्मुखीभवति नामरसिन्धोः॥ ६३ ॥ राजसौधशिखरैर्ननु हैमैस्तर्जितः सुरगिरिर्नु निनङ्कः। शूरराजधिषणप्रमुखैः किं रुध्यतेऽस्य परितो भ्रमभङ्गया ॥ ६४ ॥ रत्नराशिरचितैपसौधैः प्रेक्षको हृतमना इव सर्वः। रोहणाचलरुचिं विमुमोच शोचते न लघुमभ्यधिकाप्तौ ॥ ६५ ॥ दि. म० १३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org