SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ ९८ [दशमः सर्गः 10 महोपाध्यायमेघविजयगणिकृतं एत्य यत्सुरजनी रजनीषु मण्डपे सुमनसां सुमनोभिः। खीचकार सुरतं शुकवाचाऽमूषु तन्नृमिथुनान्यधिजग्मुः ॥ ३४ ॥ तालिकावलिचलाचलपत्रमूर्च्छिता झुपवनात् पवनाऽऽली। पद्मिनी प्रणुदिताऽऽसु वधूनां द्राक् चकार रतखेदविभेदम् ॥ ३५ ॥ [इति वाटिकावर्णनम् ] उन्नमद्भिरभितस्तरुराज्या वाटिका सुविटपैरविलोक्या। सा विशालतरसालवरेण पर्यवेष्ट्यत पुरी गिरिणेव ॥ ३६ ॥ तत्पुरीशकृतभूतलभूयोवैरिराजधृतदुर्गविभङ्गात् । तुङ्गतां स नु गतः कपिशीरभ्रदुग्गकवलीकृतिमैच्छत् ॥ ३७॥ द्वेषिबुद्धिविषयाऽऽवरणेन भूतलाभरणवद् वरणोऽयम् । शीतगोः परिधिना कृतसख्यं शेषकुण्डलिकलाग्रहणाय ॥ ३८ ॥ शेष एष खलु शीर्षसहस्रं भूमिभारधरणाय बभार । तदिवोभरसहे वरणेऽस्याः शीर्षकोटिरपि साम्प्रतमेव ॥ ३९॥ कुण्डलीकरणकौशलवृत्त्या नागराज इह युक्तमधःस्थः । देवराजमपि किं नु विधित्सुस्तद्वदुच्चतरतां स जगाम ॥ ४०॥ खातिकाऽऽकृतिबलाजलजन्यं पौरुषाऽऽवलिमिषान्ननु वन्यम् । सालमुच्चयधिया स्थलवयं किं त्रिधा भजति दुर्गमिहैवम् ॥ ४१ ॥ वप्रविप्रमतिलुब्धतयैव सर्वतोऽवति दिगम्बरभागान् । तं जिघक्षमरुणद वरुणः किं खातिकापदभृताम्बुधिनेव ॥४२॥ आलवालजलमप्यनिरुद्धं सालमेधयति किं न विशालम् । खातिकाजलनिरर्गलसेकाद् वप्रवृद्धिरुचिरताम्बरसीमा ॥४३॥ जन्मनैव हि निरावरणोऽयमम्बराय किमु धावति वप्रः। इत्यवेत्य विधिना ह्यनुकूलं निर्ममेऽस्य परिखाङ्कदुकूलम् ॥ ४४ ॥ पातिसाहिमहसा सहसाऽयं निर्गलन्निव जलैः परिखायाम् । भेजिवान् महिमवान् हिमवान् किं संनिधाय वरणाचरणेन ॥ ४५ ॥ प्रस्फुरद्भिरभितः कपिशीर्वद्धमौलिरिव सालनृपालः। वह्निशस्त्रजनितध्वनिसारैर्वारयन्नरिजनानिव रेजे ॥ ४६॥ [इति प्राकारवर्णनम् ] राजवम विरराज नगर्याः सर्वदिक्ष विपणिस्थललक्षः। खेलनाय किल मण्डललक्ष्म्याऽधायि शारिफलमस्य मिषेण ॥ ४७ ।। सर्वतो मुखमिदं सविशेषं विस्तृतं कनकरत्नगणाऽऽख्यम् । विश्वमण्डलसमापतदुद्यसिन्धुजाभिगमजातरुचीव ॥ ४८ ॥ तोरणीभवदुडुप्रतिबिम्बा धोरणीह शुशुभे विपणीनाम् । पङ्क्तियुक्तिधृतमानविमानस्वर्जयाय विहितोन्नतमौलिः ॥ ४९ ।। 20 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy