________________
९४
10
महोपाध्यायमेघविजयगणिकृतं
[ दशमः सर्गः दशमः सर्गः। अब्जवन्धुरथ बन्धुररथ्यान् नोदयन् पथि यथेच्छमनन्ते । तत्पिपासुरिव वार्द्धियियासुः पश्चिमां भृशमुपास्पृशदाशाम् ॥ १॥ वारुणीमधिगतं द्विजराजं वीक्ष्य दुर्णयपदं विनिनीषुः । शेषकोष इव शोषकृतेऽके प्राप पश्चिमदिगम्बरदेशम् ॥ २॥ पूर्वगोत्रविशदीकरणेन प्राप्तदिग्वरवधूपरिभोगः। ध्वस्तदुस्तमतमोभरपापक्षालनाय रविरब्धिमियाय ॥ ३॥ हंस एष गगनामरसिन्धौ संतरन्निव कराऽऽयतपाशैः। पाशिना ध्रुवमनीयत तीरं वाङ्गनागतिकलाऽध्ययनाय ॥ ४॥ प्रोल्लसत्सितपटैगंगनान्धौ यानपात्रमिव मित्रचरित्रम् ।। तेजसा निभृतमणेवसद्माभ्यानयन्नयरुचिनिजपाच॑म् ॥५॥ फेनपिण्ड इव मण्डलमेतचण्डगोर्नु विधिना वियदब्धौ । प्रस्फुरन् वरुणलोकशिशूनां नर्मणेऽभिचकृषे सतृषेव ॥ ६॥ प्रागधृतस्त्रिदशराजवधूभिरात्मदर्श इह भानुविमर्शः। तत्प्रतीपवरुणाम्बुजग्भिः स्पर्द्धया निजगृहे जगृहेऽसौ ॥७॥ प्रावृतः सितपटैः किमु पूर्वाधीशितू रविमिषेण शताङ्गः। आसदद् वरुणराज्यजिघृक्षोर्माययाऽपरदिशोऽपि सदेशम् ॥ ८॥ यजलानि महसा खलु शुष्यत्येष शेषसमयात् सविशेषम् । तत्पतिर्वरुणराडरुणस्य सिन्धुपातबहुपातकमाधात् ॥९॥ उद्यतस्य गगनाम्बुधितारारत्नराशिहरणादरुणस्य । पश्यतोहरकलार्णवरत्नान्यात्तुमस्तगिरिगुप्तिमधत्त ॥१०॥ वैरिणीभिरवदातविधीनां वैरिणीभिरिव वारुणलोके। चुम्बनेऽस्य विहितेऽधररागाच्छोणतामवृणुतारुणबिम्बम् ॥ ११ ॥ अस्तभूधरशिलासु विभिन्नः शातकुम्भनवकुम्भ इवाः। तत्कणैर्ग्रहगणैरिव कीर्ण व्योम सोममहसा सहसाऽऽप्यम् ॥ १२ ॥ भानुरस्तगिरिगैरिकयोगाद् योगवानिव कषायितवासाः। दूरतो निजपरिग्रहमौज्झदू रूप्यका ग्रहगणास्त इमे खे ॥ १३ ॥ प्राविवेश जलधौ जलधौतं खं विधातुमरुणामरहस्ती। उच्छलद्भिरिव तस्य कपोलाद् व्यानशे नु तिमिरैर्भमरैः खम् ॥ १४ ॥ दूरदेशमभिजग्मुषि पत्यो पद्मिनीभिरचिराद् विरहाा । विश्लथा विदधिरेऽलिकबर्यस्तत्कचैरिव तमोभिरुदीये ॥ १५ ॥ शूरदूरगमनान्मदपूराद् यन्निशाचरगणेन दिदीपे। माऽस्तु दर्शनमशुद्धममीषां पद्मिनीभिरिति मङ्गु निदद्रे ॥१६॥
20
25
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org