SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ८० महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्गः भुवनैकरविः कविद्विपैर्वसुधायां बहुधा सुधाशनैः । महसा ह्यभिभूयतेऽन्वहं वितथा नैव तथाऽप्यदःकथाः ॥ १४०॥ कतिचिद्गुणभावनाऽप्यसौ तनुते भागवतीह पावना। स्मरणाऽऽदरणार्थधारणैर्भविनामीहितवस्तु वस्तुतः ॥ १४१॥ श्रीशङ्केश्वरपार्श्वशाश्वतरवेः सर्वाङ्गशोभाभरः प्राणनत्रिदशेन्द्रसान्द्रमुकुटज्योतिर्भिरभ्यर्हितः। दृष्टः स्पष्टतयाऽनुरक्तमनसा ध्यातः प्रभातप्रियां ध्येयादू ध्येयमहोदयश्रियमहो ! श्रीजैन भक्तिस्पृशाम् ॥ १४२॥ इति श्रीदिगविजयनाम्नि महाकाव्ये महोपाध्यायश्रीमेघविजयगणिविरचिते श्रीशिवपुरीस्थितश्रीशङ्केश्वरपार्श्ववर्णनो नामाष्टमः सर्गः । 10 --* - - [१४.१ "वितथा नैव" सत्या एव । २"अदःकथाः" भमुष्य वार्ता। [१४२] ३"ध्येयमहोदयश्रियम्" ध्येयो यो महोदयो मोक्षः पक्षे ध्येयः स्वाभीष्टम्तस्य महोदयस्य प्राप्तिः सैव संपत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy