________________
पद्य १४० - ७ ]
दिग्विजय महाकाव्यम्
नवमः सर्गः ।
अथोपदेशादनुदेशजाग्रन् महामहानन्दमयं गणेन्दुः ।
लेभेऽत्र लाभात् सुकृतस्य सत्यं सत्याकृतिः सा शिवपूर्व्वसत्याः ॥ १ ॥ परेञ्जनो यत्र वसन् प्रचेताः सौधर्मभतुः प्रणयर्क्युपास्तिम् । रजत्यजस्रं न मनः प्रतीच्यामस्यां मुनीन्द्रस्य कथं विहस्य ॥ २ ॥ चित्रं प्रतीच्यामपि सौरभासां महोदय श्रीर्विजयिन्यसक्तम् । न किं द्वितीयादिवसे सुधांशोः कलांबलात् स्यादुदयप्रभाऽस्याम् ॥ ३ ॥ सौरप्रभाऽस्यामपि सर्वदिक्षु प्रबोधबीजं सुतरां तथापि । सुदूरभावादिव पूर्वभागे वैवर्ण्यमाविर्भवति स्म किञ्चित् ॥ ४ ॥ दोषाकरस्यै द्विजनायकस्य मैन्दस्य भसा बहुलक्षणेषु । क्रमेण च्या कॅमनो मनोऽथ व्यामोहजन्मा सुदृशा रुरोध ॥ ५ ॥ जनार्दनस्य प्रियताऽनृतानां वृत्त्या विताने पिशिताऽशिता च । लोकस्य "रौद्रं प्रणिधानमासीन्मोहेन साऽब्रह्मनिषेवणाऽपि ॥ ६ ॥ श्री पार्श्वभावानुदियाय यस्यामाभाति या देवपुरीवयस्या । शुद्धाऽपि केंद्रा शतमन्युबुद्धया सा "तीर्थपृथ्वीषु पुरीधुरीणा ॥ ७ ॥ [१] १ " महामहानन्दमयम्" महानन्दप्राप्तिरेव २ “स त्याकृतिः” सत्याऽऽकृतिः सत्यङ्कारो वा निर्णयः; सतीवाऽऽकृतिः " आकृतिस्तु जातौ रूपे वपुष्यपि" इति हैमः [ अने० सं० कां० २ श्लो० २६२] । ३ "सा" इयं शिवपुरी एव । ४ " शिवपूर्व्वत्याः " शिवपुरिनिवासस्य ।
|
[२] ५ " परञ्जनः" वरुणः: “जलकान्तारः स्यात् परञ्जनः " इति हैमः [ अभि० चं० कां० २ श्लो० १०२] ६ " प्रचेताः " | पण्डितोऽपि । ७ सौधर्मभर्तुः " सुधर्मणो भावः सौधर्मं तद्धारकस्य सौधर्मेन्द्रस्य । ८ " उपास्तिम्” सेवाम् ।
[३] ९ “ कला बलात्” “कला स्यात् काल-शिल्पयोः” । [ ४ ] १० " वैवर्ण्यम्” कालिकाः विरुद्धवर्णता ब्राह्मणादिव्यवस्थाहानि मांसाशनादिना ।
[५] ११ " दोषाकरस्य" रागद्वेषमोहानामाकरस्य रात्रि पतेर्वा । १२ " मन्दस्य” जडस्य पक्षे क्षीणस्य । १३ “भासा” कान्त्या दीया वा । १४ बहुलक्षणेषु बहुषु लक्षणेषु लक्षणशास्त्रेषु व्याकरणादिषु पक्षेऽसितपक्षसमयेषु । १५ “हच्या” इच्छया दीध्या वा । १६ “कमनः " ब्रह्मा स्मरश्व 1 १७ " व्यामोहजन्मा" अज्ञानजन्यः । १८" सुशाम्" सम्यक्ववतां स्त्रीणां वा ।
[६] १९ “ जनार्दनस्य" जनपीडनस्य हिंसायाः कृष्णस्य वा । २० “अनृतानामू” कर्षणानामलीकानां वा “अनृतं | श्लो० २१९-२०]॥
[ 1 ] 1 “गणेन्दुः” गणेष्विन्दुरिव श्रीविजयप्रभसूरिः । 2 " सुकृतस्य" पुण्यस्य ।
दि० म० ११
Jain Education International
कर्षणेऽलीके" इति हैमः [ भने० सं० कां० ३ श्लो० २५० ] २१ "विताने" यज्ञे जनानां विस्तारे वा "वितानं कदके यज्ञे विस्तारे क्रतुकर्मणि, तुच्छे मन्दे वृत्तशून्ये शून्यावसथयोरपि " ॥ इति हैमः [ अने० सं० कां० ३ श्लो० ४४२-४३ ] । २२ " पिशिताशिता” मांसभक्षणम्, “पिशितं मांसवाचकं पिशिता मांसिका" इति हैमः [ अने० सं० कां० ३ श्लो० २९८-९९ ] । २३ " रौद्रम्" प्राणातिपातादि रुद्रसम्बन्धि वा । २४ "मोहेन" अज्ञानेन । २५ " अब्रह्मनिषेवणा” अब्रह्म मैथुनं तत्सेवा 'ब्रह्मसेवा' इति पदविभागे ब्रह्मणः सेवा वा ।
[७] २६ “श्रीपार्श्वभास्वान्" श्रीः पार्श्वे यस्य स सूर्यः । २७ “ देवपुरीत्रयस्या" देवपुर्या वयस्या सखी इन्द्रवासात् । २८ "शुद्ध" निर्मला । २९ " रुद्रा शतमन्युबुद्धया" शतमन्योरिन्द्रस्य बुद्ध्या रुद्धाऽपि मदीयेयमिति धिया चन्द्रः 事 स्थास्यतीति, शतमुपलक्षणात् सहस्रं वा तत्प्रमाणा ये मन्यवो यज्ञास्ते मनीषया रुद्वा । ३० "सा" बहिरेव ग्राह्यमाशा दिकू पक्षे सा वाराणसी । ३१ "तीर्थपृथ्वीषु पुरीधुरीणा” तीर्थभूमिषु पुरीधुरीणा पुरीभिर्नगरीभिर्धुरीणा मुख्या, मुख्या पुरीत्यर्थः । "तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रियुपाये स्त्रीरजस्यपि ॥
|
८१
योनौ पात्रे दर्शनेषु" इति हैमः [ अने० सं० कां० २
[3] 2 " सौरभासाम् ” सूर्य दीप्तीनाम् ।
For Private Personal Use Only
5
10
15
www.jainelibrary.org