SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 10 महोपाध्यायमेघविजयगणिकृतं [अष्टमः सर्गः त्रिपदी त्रिजगद्विशुद्धये त्रिपथेव प्रससाद साऽऽदरा । इत एव जगत्पतिरिति स्फुटरेखात्रितयाङ्कवान् गलः॥ ६९॥ रमते सततं गलस्थले विनिधायेव निजं भुजद्वयम् । विभुना वरशुक्लधारणा वनिता सौमनसस्रजश्छलात् ॥ ७० ॥ गलकन्दलशोभयेशितुर्विजितः कम्बुरनम्बुमेघवत् । ध्वनिमातनुते विशीर्णहृत् प्रतिवेश्म भ्रमभिक्षुहस्तगः ॥ ७१ ॥ खरसात् स्वरसार्थमाधुरी त्रिविधाऽऽस्थायमिदं गलस्थलम् । जनरञ्जनहेतुरीशितुर्विधिनैतत् निरुदीक्ष्य रेखितम् ॥ ७२ ॥ यदि वाऽत्र समुद्भवदध्वनेर्मननं संवरणं तथा रुचिः। त्रयमभ्युदयाय जायते गलरेखात्रयमित्यवीवदत् ॥ ७३ ॥ भगवन्मुखचन्द्रमण्डलादिव सुस्राव सुधा त्रिधा रयात् । तत एव गले त्रिरेखिका त्रिदशैः लिग्धतया निपीयते ॥ ७४ ॥ धृतरेखतया त्रिधोपमात्रितयं कण्ठतटी जिगाय सा। महसा (१) कृतितः (२) स्वरोदया (३) च्छशिनं (१) कम्बुवरं (२) सुधारसम् (३) ॥७॥ जडधीष्टतनद्धवः स्वयं बहधाऽऽवर्तविवर्तितान्तरः। कथमेत्युपमां हि वारिजः शुभकण्ठस्य समग्रवेदिनः॥ ७६ ॥ वदनं विधुरेखसोदरः कमलाभोगधरः करः प्रभोः।। किमितीव विमृश्य वारिजो विरराजेव गलस्थलच्छलात् ॥ ७७ ॥ जलधिर्ध्वनिनावधीरितः शशभृदु भृत्य इवाऽऽननश्रिया। इति नाथगलस्य लीलया वरकम्बोर्विजये सहायता ॥ ७८॥ . मणिभर्तुरतः पुरोद्भवन् ध्वनिरेव प्रसृतः सुराध्वनि । जलधेर्विजयी तदङ्गभूरिह शङ्खस्तुलयेद् गलेन किम् ॥ ७९ ॥ [इति गलस्थलवर्णनम् ।] भगवद्वदनेन्दुमण्डलं सततं प्राप्तमहोदयश्रिया। अपनीय कलङ्कसङ्करं सुदृशामभ्युदयश्रियेऽद्भुतम् ॥ ८०॥ 15 20 [७०] १ "वरशुक्लधारणा" श्रेष्ठशुक्लध्यानरुचिः। [७] ३ "कमलाऽऽभोगधरः” कमलानामाभोगो [७६] २ "जडधी" जलधिः सिन्धुः "रलयोरैक्यम्" विस्तारस्तं धरत इति, पक्षे श्रीभोगधरः ॥ इति सूत्रात् , पक्षे जडधी मन्दः । । [७९] ४ "तदङ्गभूः" समुद्रपुत्रः । . [69] 1 "त्रिपदी" उत्पाद-व्यय-ध्रौव्यात्मिका पदत्रयी। । ध्वनेरुद्मात् सुधारसममृतरसं जिगाय । [71] 2 “कम्वुः" शङ्कः "कम्बुंस्तु वारिजः त्रिरेखः [78] 8 "अवधीरितः" तिरस्कृतः। 9 "शशभृद्" चन्द्रः। षोडशावर्त्तः शङ्खः" इति हैमः [अभि. चिं. कां. ४ श्लो. [80] 10 भगवतो मुखमिन्दुमण्डलेनोपमीयते तेनोदयश्रीरूपो २७०-७१] 13 “प्रतिवेश्म" प्रतिगृहम् । 4 "भ्रमभिक्षुहस्तगः" | धर्मः, मुखं चोपमावाचकत्वमतो धर्मोपमावाचकयोः पूर्णवमुपमायाः चलनखभावस्य याचकसाधोः 'बावा' इति भाषाप्रसिद्धस्य करगतः। प्रदर्शितमस्ति, यथा काव्यालङ्कारवृत्तावरिसिंहः [75] 5 "महसा" तेजसा शशिनं चन्द्रं जिगाय । “धर्मोपमावाचकयोश्चोक्तौ पूर्णा मता यथा । 6 "कृतितः” कार्यात् कम्बुवरं श्रेष्टशङ्ख जिगाय। 7 "स्वरोदयात्" शशीवाऽऽस्यं मुदं दत्ते......... [प्र. ३, स्त० ५ श्लो० २]" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy