SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 5 10 ७० 15 20 महोपाध्यायमेघ विजयगणिकृतं प्रतिबिम्ब यथास्थलस्थितैस्तदलङ्कार मणीगणैर्वधूः । अनलङ्कृतमङ्गमात्मनो बुबुधे न स्मरविस्मयाऽऽकुला ॥ २७ ॥ प्रतिवेश्म महोत्सवादहर्निश माहूत सगोत्र भुक्तिषु । सुहितो ह्येवनीवनीपकः पुरि यस्यामेवनीपति स्वतः ॥ २८ ॥ नवहर्म्यशिरस्सु काञ्चनैः कुसुमैर्नीलमणीदलस्थितैः । सुमनोभिरसौ हि वीरुधां हरिभिर्निखगृहे समाबभौ ॥ २९ ॥ सुदती तुदती नृणां मनः कैमनव्यासभृतां जलाशये । मुखमम्बुरुहां वनान्तरे नृपरूपं दधती मुदेऽभवत् ॥ ३० ॥ समवापि नवाऽपि वापिका चतुरैः कैरिह न स्मराऽऽतुरैः । सुदृशां जलमज्जने श्रिता कमलाssभां वदनैरर्तिवाम् ॥ ३१ ॥ [ इति नगरभवन-वन - वापी - सरोवर्णनम् ] अथ तत्र पुरे सुरेशितुर्महनीयः किरणैरैहर्मणिः । उदियाय जयाय तीर्थकृत् प्रभुपार्श्वः प्रतिमाखरूपतः ॥ ३२ ॥ विषयैर्विषयीकृते शुभैर्विषये निर्विषयीकृताशुभे । सुकृताभ्युदयाय भूस्पृशामुदियाय प्रतिमाऽश्वसेनभूः ॥ ३३ ॥ जनता बहुधेष्टपूरणात् स हि शङ्केश्वर एव शाश्वतः । कुरुते गुरुतेजसाऽऽत्मनां बहुशं खेश्वरदेव भाखतः ॥ ३४ ॥ भरतार्द्धपतिः पुरा हरिः पुरि शङ्खेश्वरनाश्यतिष्ठिपत् । ककुभां विजये जिनेश्वरं खरसात् पार्श्वमतीव भाखरम् ॥ ३५ ॥ अभिधानविधिस्ततोऽर्हतः स्मरणीयोऽस्य पुरा पुरानुगः । अथ तीर्थमिहापि पप्रथे प्रतिविम्बेऽतिशयप्रभावतः ॥ ३६ ॥ [ २८ ]१ " सुहितः " तृप्तः, "तृप्ते त्वाघातसुहिताऽऽशिताः " | अवनीप इवाऽऽचरतीत्यवनीपति किप् ॥ इति हैमः [ अभि० चिं० कां० ३ श्लो० ९० ] । २ “अवनीवनीपकः " पृथिव्या मार्गणः "याचकस्तु वनीपकः" इति हैमः [ अभि० चिं० कां० ३ श्लो० ५१ ] । ३ “अवनीपति” अत्र "स्वस्थादिभिर्भ्रमात् कार्यप्रवृत्तिः परिकल्पते" इति काव्यकल्पलतावृत्तौ” [प्र० ४ स्त० ५ ] उक्तवात् नीलमणिषु भ्रमेण रात्रिं परिकल्प्य स्त्रियः वीतभया दृश्यन्ते । [29] 1 "नवहर्म्यशिरस्सु" नवीनप्रासादशिखरेषु । 2 "काञ्चनकुसुमैः " सुवर्णपुष्पैः । 3 "सुमनोभिः " पुष्पैः । 4 “वीरु धाम्" वल्लीनाम् । 5 “हरिभिः” पीतैः; सारस्यमत्र व्यङ्ग्यम् 6 " निखगृहे " सुवर्णपुष्पाभावेऽपि । । [30]7 " तुदती" पीडयती । 8 " कमन त्र्यासभृताम् " मदनप्रपञ्चधृतानाम् ॥ Jain Education International [ अष्टमः सर्गः [ पाठान्तरम् ] [३०] ४ “अम्बुरुहाम्” कमलानाम् । ५ " नृपरूपं दधती" राजवद् - मुखं प्रकाशयन्ती ॥ [31] 9 “स्मराऽऽतुरैः " कामपीडितैः । 10 " अनार्तवाम् " अपीडिताम् ॥ [32] 11 " महनीयः " तेजखी । 12 " अहर्मणिः " सूर्यः । [33] 13 "विषयीकृते" गोचरीकृते, “विषयोऽत्र यो ज्ञातस्तत्र गोचरदेशयोः शब्दादौ जनपदे च" इति हैमः [ अने० सं० कां० श्रो० ]। 14 “ भूस्पृशाम् ” मानवानाम् । 15 “अश्वसेनभूः” पार्श्वनाथः ॥ For Private Personal Use Only [35] 16 “हरिः ” कृष्णः । 17 " ककुभाम्” दिशाम् ॥ [36] 18 “पुरानुगः” पूर्वानुगतः । 19 " पप्रथे ” वितस्तार ॥ www.jainelibrary.org
SR No.002784
Book TitleDigvijaya Mahakavya
Original Sutra AuthorMeghvijay
AuthorAmbalal P Shah
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy